________________
२०२
श्रीज्ञानमञ्जरी श्रीवीतरागोकप्रवचनपद्धतिः सानुबन्धा-सापेक्षा, तत्तपः शुद्धमिष्यते । भावना च- प्रथममिन्द्रियाभिलाषनिरासे शान्तपरिणत्या सिद्धान्तोक्तविधिना निरभिलाषस्य तपः विशुद्धं भवति । अनादिपरभावसुखस्पृहया कि केन न कृतं कष्टयनुष्ठानम् ? यच्च स्वरूपनिरावरणार्थं निःसङ्गनिर्मोहतत्त्वैकत्वरूपं व्याघातकपरभावाहारादिग्रहणनिवारणलक्षणं तपः श्रेष्ठमिति। उक्तं च
निरणुाणं मयमोहरहियं सुद्धतत्तसंजुत्तं । अज्झत्थभावणाए तं तवं कम्मखयहेउं ॥१॥ ॥६॥ तदेव हि तपः कार्यम्, दुर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि वा ॥७॥
तदेव हीति-हीति निश्चितम्, तदेव तप: कार्य-करणीयम् 'यत्र दुर्ध्यानं-पुद्गलाशंसारूपमनिष्टतारूपं नो भवेत् । येन तपसा योगा:मनोवाक्कायरूपाः, न हीयन्ते स्वरूपरमणं तत्त्वानुभवतः न हीयन्ते । यत्र इन्द्रियाणि न क्षीयन्ते धर्मसाधनस्वाध्यायाहिंसादि तत्कार्यप्रवृत्तिर्न क्षीयते क्षयं न लभते । इत्यनेन साधनीभूतचेतनावीर्याणां हानिः न स्यात्, तत्तपः शुद्धं कार्य-कर्त्तव्यमिति ॥७॥
मूलोत्तरगुणश्रेणिप्राज्यसाम्राज्यसिद्धये । बाह्यमाभ्यन्तरं चेत्यम्, तपः कुर्यान्महामुनिः ॥८॥
॥ इति तपोऽष्टकम् ॥३१॥ मूलोत्तरगुणेति महामुनिः-परमनिर्ग्रन्थः इत्थं तपः कुर्यात् । किंभूतं तपः ? मूलोत्तरगुणश्रेणिोज्यसाम्राज्यसिद्धये-मूला:-मूलभूता ज्ञानचारित्रादयः गुणाः, उत्तराः-समितिगुप्त्यादयः गुणाः, तेषां श्रेणिःविशेषतः गुणप्राग्भावरूपा, तया प्राज्यं-प्रचुरं यत् साम्राज्य-प्रभुत्वं तस्य सिद्धिः-निष्पत्तिः तस्यै इत्यनेन स्वकीयगुणप्रभुत्वनिष्पत्त्यर्थं बाह्य
१. तत्र V.1. । २. प्राज्यं A.D., V.1.1 ३. प्राज्यं मूला: V.1., A.D., B.1.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org