________________
तपोऽष्टकम् (३१)
२०१ आत्मानमानन्दयति । कुतः? इत्याह-उपेयमधुरत्वतः-उपेयस्य-मोक्षस्य निर्मलाव्ययपदस्य यन्मधुरत्वं-माधुर्यं तस्मात्, सिद्धिमाधुर्यरतस्य तत्साधनोपायभूतं निष्परिग्रहत्वादि सर्वं हितं जानाति । कथंभूतानां तपस्विनाम् ? सदुपायप्रवृत्तानाम्- 'सन्-शोभन: उपाय:-साधनं संवरनिर्जरारूपम् तत्र प्रवृत्तानाम्-उद्यतानाम् । इत्यनेन स्वधर्मसाधने साधूनामानन्दः, न दुःखम् । यस्य साधने कष्टत्वबुद्धिः स न साधकः । उक्तं च षोडशके -
(खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगाऽसङ्गैः । युक्तानि हि चित्तानि, प्रबन्धतो वर्जयेन्मतिमान् ॥१४॥३॥) इत्थं च दुःखरूपत्वात्, तपो व्यर्थमितीच्छताम् । बौद्धानां निहता बुद्धिबौद्धानन्दपरिक्षयात् ॥५॥
इत्थं च दुःखेति- इत्थं-यत्तपः कष्टमिति भासनपूर्वकं तत्तपः व्यर्थ-निष्फलम् । कस्मात् ? दुःखरूपत्वात् । तपःकरणे एव दुःखोद्वेगौ । यत्रानादरः स कथं हिताय भवति ? तथा इच्छताम् इति परभावसुखमिच्छतां-वाञ्छताम्, बौद्धानां बुद्धिः निहता-निश्चयेन हता । कस्मात् बौद्धानन्दपरिक्षयात्-बौद्धानन्दः 'बौद्धं-ज्ञानं तस्य आनन्दः तस्य परिक्षयात् ज्ञानानन्दधाराक्षयात् कष्टरूपं तपः निष्फलम् ॥५॥
यत्र ब्रह्म जिनार्चा च, कषायाणां तथा इतिः । सानुबन्धा जिनाज्ञा च, तत्तपः शुद्धमिष्यते ॥६॥
यत्र ब्रह्मेति, यत्र-यस्मिन् तपसि, ब्रह्म-मैथुनत्यागः विषयानभिष्वङ्गः अस्ति । यत्र जिनानामर्चा-पूजा-तत्त्वभक्तिर्वर्द्धते । पुनः यत्र कषायाणां-क्रोधादीनां हृतिः-नाशः, च-पुनः यत्र जिनाज्ञा१. माधुर्यरत: L.D.1. । २. सत्-शोभनम् उपायं...सर्वप्रतिषु । ३. अत्र किञ्चित् त्रुटितं भाति सर्वप्रतिषु, योग्यत्वादेष श्लोको गृहीतः । ४. बोधो-ज्ञानं L.D.1. । ५. हतिः S.M., V.2, B.2.. D.1. । ६. हृतिः S.M., B.1.2., V.2., A.D. 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org