________________
१८२
अर्थालम्बनयोश्चैत्य - वन्दनादौ विभावनम् । श्रेयसे योगिनः स्थान- वर्णयोर्यत्न एव च ॥५॥ अर्थालम्बनयोरिति- अर्थो वाक्यस्य भावार्थ:, आलम्बनं वाच्ये पदार्थे अर्हत्स्वरूपे उपयोगस्यैकत्वम् । अर्थश्च आलम्बनं च अर्थालम्बने तयोः, चैत्यवन्दनादौ - अर्हद्वन्दनाधिकारे विभावनंस्मरणं करणीयं श्रेयसेकल्याणार्थम् । च-पुनः स्थानं वन्दनककायोत्सर्गशरीरावस्थानमासनमुद्रादि वर्णा:- अक्षराणि, तस्य ( तेषां ) शुद्धिस्तयोः यत्न एव श्रेयसेकल्याणाय भवति । उक्तं चावश्यके
1
श्रीज्ञानमञ्जरी
[116] जं वाइद्धं वच्चामेलियं, हीणक्खरं, अच्चक्खरं, पयहीणं, विणयहीणं, जोगहीणं, घोसहीणं, सुठुदिन्नम्, दुट्टुपडि - च्छियं, अकाले कओ सज्झाओ, काले न कओ सज्झाओ, (असज्झाइए सज्झाइयं, सज्झाइए न सज्झाइयं) तस्स मिच्छा मि दुक्कडं " [ आ०नि०, पगामसिज्झासूत्रे ] इत्यनेन द्रव्य-क्षेत्र - कालविशुद्धौ भावसाधनसिद्धि: तेन द्रव्यक्रिया हिता ॥ ५ ॥
आलम्बनमिह ज्ञेयम्, द्विविधं रूप्यरूपि च । अरूपि गुणसायुज्यम्, योगोऽनालम्बनं परम् ॥६॥
आलम्बनमिति इह - जैनमार्गे आलम्बनं द्विविधं ज्ञेयं द्विप्रकारं ज्ञेयम् एकं रूपि, अपरम् अरूपि । तत्र रूप्यालम्बनं - जिनमुद्रादिकपिण्डस्थ- पदस्थ रूपस्थपर्यन्तम्, यावदर्हदवस्थालम्बनं तावत्कारणावलम्बनं शरीरातिशयोपेतं रूप्यवलम्बनम् । तत्र अनादिपरभावशरीरधनस्वजनावलम्बी, परत्र परिणतचेतनः विषयैश्वर्याद्यर्थं तीर्थंकराद्यवलम्बनमपि भवहेतुः । तथैव यः स्वरूपानन्दपिपासितः स्वरूपसाधनार्थं प्रथमकारणरूपं जिनेश्वरं वीतरागादिगुणसमूहैः अवलम्बते, यावद् मुद्राद्यालम्बनी तावद् रूप्यवलम्बनी । स एव अर्हत्सिद्धस्वरूपं ज्ञानदर्शनचारित्राद्यनन्तपर्यायविशुद्धशुद्धाध्यात्मधर्ममवलम्बते, इति अरूप्यालम्बनी । १. मुद्रादिकम्, V. 1., A. D. । २. विषयाश्वर्या० सर्वप्रतिषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org