________________
शास्त्राष्टकम् (२४)
१६५ इत्यादि । जीवाजीवादिगुणपर्यायविभजनसर्वाश्रवत्यागकर्तुरपि तन्नैश्चयिकश्रद्धाकृतेन सम्यग्दर्शनम् । तेन यथार्थस्वपरविभागविभक्त स्वरूपोपादेयत्वपरिहेयत्वविज्ञानपूर्वकनिमित्तोपादानकारणनिर्धारशुद्धाविनश्वरस्वसिद्धपरिणतौ धर्मत्वप्रतीतिः सम्यग्दर्शनम् । इत्येवं सम्यग्दर्शनयुक्तस्य रुचिकृतपरमात्मभावस्य तत्साधनोपायानवच्छिन्नकथनं शास्त्रम् । तच्च नामादिभेदतः, नामतः आचाराङ्गादि । स्थापनातः सिद्धचक्रादौ स्थापितं श्रुतज्ञानम् । द्रव्यतः पुस्तकन्यस्तम्, अथवा-अनुपयुक्तपुरुषस्य क्षयोपशमगतं जैनागमम् । नयविचारे तुनैगमेन वचनोल्लापव्यञ्जनाक्षरादिकम् । संग्रहतः जीवपुद्गलौ-द्रव्येन्द्रियभावेन्द्रिये शास्त्रं तद्धेतुत्वात् । व्यवहारतः पठनपाठनश्रवणात्मकम् । ऋजुसूत्रतः मनननिदिध्यासनरूपम् । शब्दतः तत् श्रुताधारात्मस्पर्शज्ञानपरिणामलक्षणं भावक्षयोपशमोपयुक्तस्य । समभिरूढतः तन्मयस्य सर्वाक्षरलब्धिवतः शुद्धोपयोगः । एवंभूततः सर्वाक्षरसम्पन्नस्य । निर्विकल्पोपयोगकाले उत्सर्गभावशास्त्रपरिणमनोपयुक्तत्वात् इति । अतः परमकारुणिकोपदिष्टं शास्त्रं हितम् । उक्तं च तत्त्वार्थभाष्ये[102] एकमपि जिनवचनाद्यस्मान्निर्वाहकं मोक्षं पदं भवति ।
श्रूयन्ते चानन्ताः, सामायिकमात्रपदसिद्धाः ॥२७॥ तस्मात्तत्प्रामाण्यात्समासतो व्यासतश्च जिनवचनम् । श्रेय इति निर्विचारम्, ग्राह्य धार्यं च वाच्यं च ॥२८॥ न भवति धर्मः श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकान्ततो भवति ॥२९॥ श्रममविचिन्त्यात्मगतम् तस्मात् श्रेयः सदोपदेष्टव्यम् ।
आत्मानं च परं च, हितोपदेष्टाऽनुगृह्णाति ॥३०॥ इति । अत एव शास्त्रादरोत्पादनार्थमुपदिशति
१. योगे S.M.
૧૫ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org