________________
अनात्मशंसाष्टकम् (१८)
१३१ [78] रागदोसादओ तिव्वा, नेहपासा भयंकरा । ते छिदित्तु जहानायं, विहरामि जहक्कम ॥४३॥
[उत्तरा०-अ० २३. गा० ३८, ४३] तथा च नमिराजर्षिवचनम्[79] बहु खु मुणिणो भई, अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ ॥१६॥
[उत्तरा० अ० ३ गा० १६] इत्यादि । परपुद्गलसंयोगे यथार्थज्ञानवतो न भयम् ॥८॥
॥ इति व्याख्यातं निर्भयाष्टकम् ॥१७॥
॥ अथ अनात्मशंसाष्टकम् ॥१८॥ निर्भयत्वं सर्वपरभावत्यागे भवति, परभावत्यागश्च तेषु परभावेषु अनात्मज्ञानेन भवति । तदर्थं यदात्मव्यतिरिक्तं तदनात्म, तस्य' शंसनंकथनं तत्स्वरूपमनात्मशंसाष्टकं व्याख्यायते । तत्र नामस्थापना सुगमा । द्रव्यतः अनात्मशंसनं द्विविधम्, बाह्यमन्तरङ्गं च । तत्र बाह्यं-लौकिकं यत्स्वभोगादिप्रयोजनाभावे परधनगृहकलत्रादौ न ममेदमित्यारेकारूपं ज्ञानम् । तथा बाह्यं लोकोत्तरं यद् धनस्वजनतनुप्रमुखं विनाशित्वेन परभवे असहायत्वेन दुःखोत्पत्तिस्वरूपेषु स्वार्थप्रतिबद्धस्वजनेषु यत् परत्वारेकाचिन्तनरूपा तस्य ज्ञानम् । भावतः पुनः कुप्रावचनिकमशुद्धं मोक्षाभिलाषपूर्वकं यत् तामिलस्य [तामलेः] परित्यागतुल्यम् । शुद्धं तु सम्यग्दर्शनपूर्वकतत्त्वातत्त्वविवेकेनोपयुक्तम्, सम्यग्ज्ञानेन आत्मनः स्वद्रव्य-स्वक्षेत्र-स्वकाल-स्वभावाद् भिन्नमौपाधिकत्वम्,३ तत्सर्वमपि पररूपं न मदीयमिति वास्तवं भेदज्ञानं तदनात्मशंसनम्, तत्करणे तत्त्वज्ञानं भवति । तदपि अनिष्टेषु अजीवेषु, जीवाश्रितकर्मपुद्गलेषु १. तत्-V.1.2. B.1.2. S.M. | २. विवेचनो-V.2. B.1. A.D. | ३. त्वात्
V.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org