________________
१२८
श्रीज्ञानमञ्जरी भवसौख्येन किं भूरि-भयज्वलनभस्मना । सदा भयोज्झितं ज्ञान-सुखमेव विशिष्यते ॥२॥
भवसौख्येनेति-भूरि-बहु, भयस्य इहलोकपरलोकादि ज्वलनं तस्य (भयम् इहलोकपरलोकादि, तदेव ज्वलनस्तस्य) भस्मना-क्षारभूतेन चौरदायादराजभयज्वलनदग्धेन भवसौख्येन-इन्द्रियजेन मन्यमानसौख्येन जात्या दुःखरूपेण किं ? न किमपि नैवेत्यर्थः । ज्ञान-तत्त्वपरिच्छेदानुभवरूपं तस्य सुखं निर्भयमेव वि(अव)शिष्यते-सर्वाधिकत्वेनाङ्गीक्रियते सुखस्वरूपं च ज्ञाने एव, पौद्गलिके सुखे सुखारोपः भ्रम एव । उक्तं
च
यरतस्य
न
जं पुग्गलजं सुहं (क्खं), दुक्खं चेव त्ति जह य तत्तस्सं । गिम्हे मट्टिअलेवो, विडंबणाखिसणामूलं ॥१॥ अतः पुद्गलग्रहणं न सुखमकार्यमेव ॥२॥ न गोप्यं क्वाऽपि नारोप्यम्, हेयं देयं च न क्वचित् । क्व भयेन मुनेः स्थेयम्, ज्ञेयं ज्ञानेन पश्यतः ॥३॥
न गोप्यमिति-मुनेः-परमात्मभावसाध्योपायरतस्य, स्वतत्त्वज्ञानानुभवस्वसंवेदनपटोः गोप्यं-गोपनमाच्छादनं तद्योग्यं गोप्यं न किमपि, स्वधर्मस्य परैर्ग्रहीतुमशक्यत्वात् गोप्यं कथं भवति ? च-पुनः नारोप्यम्-आरोपोऽसद्गुणस्य स्थापनं तदपि न, यतः स्वरूपेणैवानन्तगुणमयत्वात् परगुणेन न गुणित्वप्रसङ्गः, अतः आरोप्यमपि क्वापि नास्ति । क्वचित् हेयं न, सर्वहेयस्य हेयत्वेन कृतत्वात् । तथा देयमपि न, स्वधर्मव्यूहस्य परत्रागमनात् । अतो मुनेः भयेन संत्राणाभिलाषवता क्व स्थेयं ? न क्वापि । स्वयमेव स्वस्य त्रातुं समर्थत्वात् । कथम्भूतस्य मुनेः? ज्ञेयं-स्वपरपदार्थसमूहम्, ज्ञानेन-अवबोधेन, पश्यतः-ज्ञायमानस्य ॥३॥
एकं ब्रह्मास्त्रमादाय, निजन्मोहचमू मुनिः । बिभेति नैव संग्राम-शीर्षस्थ इव नागराट् ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org