________________
१२६
श्रीज्ञानमञ्जरी परित्यागचक्षुर्योतकहेतुः जातः, स च सञ्जीवनीचारणरूपो दृष्टान्तस्तन्न्यायात् तथा चरणादिषु मन्दप्रयत्नोऽपि अध्यात्मानुगसमभावपरिणतः आत्मानमनादिपशुत्वभावगतमपहाय स्वरूपोपलब्धिरूपं दक्षत्वभेदेज्ञानरूपं चाक्षुषत्वं करोति । अत एव सर्वं साध्यसापेक्षस्य साधनं हितम्, साध्यशून्यस्य बालक्रीडारूपम् । उक्तं च वीतरागस्तोत्रे
[74]तथापि श्रद्धामुग्धोऽहम्, नोपालभ्यः स्खलन्नपि । विशृङ्खलापि वाग्वृत्तिः, श्रद्दधानस्य शोभते ॥८॥
[प्र० १ श्लो०-८] पुनः केषु ? अपुनर्बन्धकादिषु, [75] अपुनर्बन्धकस्वरूपं श्रीहरिभद्रसूरिवचनाद् [पञ्चा०प्र०पञ्चा०३, गा०४] ज्ञेयम्, आदिशब्दात् मार्गाभिमुख-मार्गपतिताऽविरतसम्यग्दृष्टि-देशविरत-सर्वविरतादिषु सर्वत्र परभावरागद्वेषविनिर्मुक्तात्मस्वभावानुकूलता एव साधनम् । उक्तं च योगशास्त्रे
[76] आत्मैव दर्शनज्ञान-चारित्राण्यथवा यतेः । यत्तदात्मक एवैष, शरीरमधितिष्ठति ॥१॥ आत्मानमात्मना वेत्ति, मोहत्यागाद्यदात्मनः । तदेव तस्य चारित्रम्, तद् ज्ञानं तच्च दर्शनम् ॥२॥ आत्माज्ञानभवं दुःख-मात्मज्ञानेन हन्यते । तपसाप्यात्मविज्ञान-हीनैश्छेत्तुं न शक्यते ॥३॥
[यो शा०, प्र०४, श्लो० १-२-३] सोऽयं समरसीभाव-स्तदेकीकरणं मतम् । आत्मा यदपृथक्त्वेन, लीयते परमात्मनि ॥४॥
[यो०शा०, प्र० १०, श्लो० ४] ॥ इति व्याख्यातं माध्यस्थाष्टकम् ॥१६॥
१. भेदरूपं S.M.,B.1.2, V.2 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org