________________
११०
श्रीज्ञानमञ्जरी निष्पन्नत्वादसन्नसौ तबुद्धेरपि कथमालम्बनं स्यात् ? द्रव्यरूपतया तस्य सर्वदा सत्त्वादिति । ननु य एवेह मृन्मयकार्यरूपो घटः तस्यैव कारणं चिन्त्यते इति प्रस्तुतं बुद्ध्यध्यवसितस्तु तस्मादन्य एवेति तत्कारणाभिधानमप्रस्तुतमेव । सत्यम्, भाविनि भूतवदुपचारन्यायेन तयोरेकत्वाध्यवसानाददोषः । स्थासकोशादिकारणकालेऽपि हि किं करोषीति पृष्टः कुम्भकारः "कुम्भं करोमी"त्येवं वदति, बुद्ध्यध्यवसितेन निष्पत्स्यमानस्यैकत्वाध्यवसायादिति । अथवा-भव्यो योग्यः स्वरूपलाभस्येति शक्य उत्पादयितुमतः सुकरत्वात्कार्यमप्यात्मनः कारणमिष्यते । अवश्यं च कर्मणः कारणत्वमिष्टव्यम्, यत्-यस्मात्, समस्तकारणसामग्रीसंनिधानेऽपि नैवमेव कोशार्थं प्रारम्भः किन्तु विवक्षितकार्यार्थमतस्तदविनाभावित्वात् तत्क्रियायाः कार्यमप्यात्मनः कारणमिति । एतदेव भावयतिबाह्यानि कुलालचक्रचीवरादीनि यानि निमित्तानि तदपेक्षं क्रियमाणकालेऽन्तरङ्गबुद्ध्यालोचितं कार्यं भवति । स्वस्यात्मनः कारणं स्वकारणम्, अन्यथा यदि बुद्ध्या पूर्वमपर्यालोचितमेव कुर्यात् तदा प्रेक्षापूर्वं शून्यमनस्कारम्भविपर्ययो भवेत् । घटकारणसंनिधावप्यन्यत् किमपि शरावादिकार्यं भवेदभावो वा भवेद् । न किंचित्कार्यं भवेदित्यर्थः । तस्माद्-बुद्ध्यध्यवसितं कार्यमप्यात्मनः कारणमेवेष्टव्यम् । किं बहुना? यथा यथा युक्तितो घटते तथा तथा सुधिया कर्मणः कारणत्वं वाच्यम् । अन्यथा कर्मणः अकारकत्वे करोतीति कारकमिति षण्णां कारकत्वानुपपत्तिरेव स्यादिति ।
[6] देओ स जस्स तं संपयाणमिह तं पि कारणं तस्स । होई तदत्थिताओ, न कीरए तं विणा जं सो ॥२११६॥
स अभिनवपर्यायः यस्य देयः स तं प्रति सम्प्रदानम्, तदपि तस्य कारणम् । यद्वस्तु तदर्थित्वे तत्त्वे तदरूपत्वे भवति न अभिनवपर्यायग्रहणं तर्हि न कार्योत्पत्तिः। इदमुक्तं भवति-अभिनवपर्यायग्रहणेनैव कार्यसिद्धिः ।
१. तदपेक्ष्य V.1.1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org