________________
विवेकाष्टकम् (१५)
१०९ दण्डादि निमित्तम्, तथा आत्मा कर्ता, ज्ञानादि कार्यम् । तत्र स्वसत्तापरिणतिः उपादानम् । स्वरूपसिद्धौ शुद्धपारिणामिककार्ये निमित्ताभावः इति । कर्मक्षपणशुद्धात्मप्राग्भावलक्षणे साधनकार्येऽप्यात्मा कर्ता, च तत्त्वसिद्धिः कार्यम्, आत्मगुणा ज्ञानदर्शनचारित्रवीर्यरूपाः स्वधर्मसाधनावलम्बिनः कारणमुपादानम्, निर्विकारवीतरागवाक्यादयः निमित्तमिति । [6] कम्मं किरियाकारणमिह निच्चिट्ठो जओ न साहेइ ।
अहवा कम्मं कुम्भो, स कारणं बुद्धिहेउ त्ति ॥२११३॥ भव्यो त्ति व जोग्गो त्ति व, सक्को त्ति व सो सरूवलाभस्स । कारणसंनिज्झमि वि, जं नागासत्थमारंभो ॥२११४॥ बज्झनिमित्तावेक्खं, कज्जं वि य कज्जमाणकालम्मि । होइ सकारणमिहरा, विवज्जयाऽभावया होज्जा ॥२११५॥
[विशेषा० गा० २११३-१४-१५] क्रियते का निर्वय॑ते इति व्युत्पत्तेः कर्म भण्यते । कासौ क्रिया? कुम्भं प्रति कर्तृव्यापाररूपा, सा च कुम्भलक्षणकार्यस्य कारणमिति प्रतीतमेव । आह-ननु कुलाल एव कुम्भं कुर्वन्नुपलभ्यते, क्रिया तु न काचित् कुम्भकरणे व्याप्रियमाणा दृश्यते । इत्याह-इह निश्चेष्टः कुलालोऽपि यस्मान्न (घट) साधयति-निष्पादयति, या च तस्य चेष्टा सा क्रिया इति कथं न तस्याः कुम्भकारणत्वमिति । अथवा-कर्तुः ईप्सिततमत्वात् क्रियमाणः कुम्भ एव कर्म, तर्हि कार्यमेवेदमतः कथमस्य कारणत्वं ? नहि सुतीक्ष्णमपि सूच्यग्रमात्मानमेव विध्यति । ततः कार्य निर्वर्त्यस्यात्मन एव कारणमित्यनुपपन्नमेवेत्याह- स कारणं (बुद्धिहेउ त्ति) स कुम्भः कारणं-हेतुः कुम्भस्य । कुतः ? प्रस्तावात्कुम्भबुद्धिहेतुत्वात् । इदमुक्तं भवति-सर्वोऽपि बुद्धौ सङ्कल्प्य कुम्भादिकार्यं करोति, इति व्यवहारः, ततो बुद्ध्यध्यवसितस्य कुम्भस्य चिकीर्षतो मृन्मयकुम्भः तद् बुद्ध्यालम्बनतया कारणं भवत्येव । न च वक्तव्यम१. करण V.1.1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org