________________
१००
श्रीज्ञानमञ्जरी सम्भवः-उत्पत्तिः यस्य स तस्मिन् । उक्तं च भवभावनायाम्[59] सुक्कं पिऊणो माऊए, सोणियं तदुभयपि संसटुं ।
तप्पढमयाए जीवो, आहारइ तत्थ उप्पन्नो ॥२५४॥ को कायसुणयभक्खे, किमिकुलवासे य वाहिखित्ते य । देहम्मि मच्चुविहुरे, सुसाणठाणे य पडिबन्धो ॥४२१॥
अतोऽस्थिरेऽपवित्रे औपाधिकेऽभिनवकर्मबन्धकारणे द्रव्याभावाधिकरणे कः संस्कारः ? ॥४॥ ___ अथ देहे आत्मत्वारोपोऽपि बहिरात्मदोषौघः, अतस्तन्निवार्य स्वरूपे आत्मनः पावित्र्यं करणीयम् । तदुपदिशति
यः स्नात्वा समताकुण्डे, हित्वा कश्मलजं मलम् । पुनर्न याति मालिन्यम्, सोऽन्तरात्मा परः शुचिः ॥५॥
यः स्नात्वेति-सः-अन्तरात्मा देहाद् भिन्नात्मज्ञानी-स्वपरविवेकी परः-प्रकृष्टः, शुचिः-पवित्रः ज्ञेयः यः पुरुषः, समता-अरक्तद्विष्टता 'तद्रूपे कुण्डे स्नात्वा कश्मलजं-पापोत्पन्नं मलं हित्वा पुनः मालिन्यं न याति- न प्राप्नोति सम्यक्त्वभावितात्मा परमः शुचिः, 'बन्धेण न वोलइ कयावि' इति वचनात्, सम्यग्दृष्टिरनेनांशेन स्नातकः न पुनः उत्कृष्टां स्थिति बध्नाति, एतदेव सहजं पवित्रत्वम् ॥५॥
आत्मबोधो न वः पाशो, देहगेहधनादिषु ।। यः क्षिप्तोऽप्यात्मना तेषु, स्वस्य बन्धाय जायते ॥६॥
आत्मबोध इति-भो भव्याः ! वः-युष्माकं आत्मबोधःआत्मज्ञानं न पाश:-न बन्धहेतुः, तेषु देहगृह(गेह-)धनादिषु यः आत्मना क्षिप्तः स पाश:-रागपरिणामः स्वस्य आत्मन एव बन्धाय जायते इत्यनेन देहगृहादिषु यः रक्तः सर्वः भवपाशे बध्नाति स्वस्य बन्धहेतुः इत्यनेन परभावा रागादयः आत्मनः बन्धवृद्धिहेतवः ॥६॥
१. सर्वप्रतिषु नास्ति । २. धनादिकम् A.D., V.1. । ३. एवं B.2., L.D.2., S.M. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org