________________
विद्याष्टकम् (१४) मलिम्लुचः-तस्करः छलं-छिद्रं लब्धुं न शक्नोति-न समर्थो भवतीत्यनेन यथार्थज्ञानवतो रागादयो न प्रवर्धन्ते, तस्यात्मा मोहाधीनो न भवति ॥२॥
तरङ्गतरलां लक्ष्मीमायुर्वायुवदस्थिरम् । अदभ्रधीरनुध्यायेद्, अभ्रवद् भङ्गुरं वपुः ॥३॥
तरङ्गतरलामिति-अदभ्रधीः-पुष्टबुद्धिः, लक्ष्मीः तरङ्गवत्जलधिकल्लोलवत् तरला-चपला तां तरङ्गतरलामस्थिरामनुध्यायेत्, आयुः-जीवितं वायुवद् अस्थिरं-गत्वरं प्रतिसमयविनश्वरमध्यवसानादिविघ्नोपयुक्तम्, अनुध्यायेत्-चिन्तयेत् । वपुः-शरीरं पुद्गलस्कन्धनिचितम्, अभ्रवद्भग्रं-भङ्गशीलमनुध्यायेत्, इदं च यथार्थचिन्तनं भावना च । स्वसंपद्विमुक्तेन पृथ्वीकायस्कन्धाः सम्पद्रूपेण उपचरिता न च ते सम्पत् । तथा जीवः ज्ञानदर्शनवीर्यसुखरूपैः भावप्राणैरेव जीवति आयुर्जीवनं तु बाह्यप्राणसम्बन्धस्थितिहेतुः । तन्नात्मस्वरूपम् । तथा वर्ण-गन्ध-रस-स्पर्शाचेतनशरीरोपचयश्च न स्वरूपम्, तदपि अस्थिरम्, इत्येवमस्थिरे परभावे स्वात्मधर्मप्रध्वंसके कः प्रतिबन्धः ? तदर्थं च स्वगुणान् चेतनावीर्यादीन् कः परभावग्रहणोन्मुखान् करोति? अतः आत्मनि आत्मगुणप्रवृत्तिरेव करणीया ॥३॥
शुचीन्यप्यशुचीकर्तुं, समर्थेऽशुचिसम्भवे । ..... देहे जलादिना शौच-भ्रमो मूढस्य दारुणः ॥४॥
शुचीन्यपीति-मूढस्य-अज्ञस्य यथार्थोपयोगरहितस्य, देहेइन्द्रियायतने जलादिना-पानीयमृत्तिकादिसङ्गेन शौचभ्रमः श्रोत्रियादीनां दारुणः-भयकृत् । यश्च जात्याऽशुचिः, स किं जलव्यूहैः शुचीभवति? कथम्भूते देहे ? शुचीन्यपि-कर्पूरादीन्यपि अशुचीकर्तुं-मलीकर्तुं समर्थे, देहसङ्गाद् मलयजविलेपनादयोऽप्यशुचीभवन्ति । पुनः कथम्भूते देहे ? अशुचिसम्भवे अशुचि-आर्त्तवं मातुः रक्तम्, पितुः शुक्रम्, तेन
१. सर्वप्रतिषु नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,