________________
९७
विद्याष्टकम् (१४) साधोः मौनमनुत्तरम् । वियद् वस्तुभावानुरोधादेव तत्कारकाद् वियत् सम्पूर्णता तदुत्पत्तौ 'कुम्भस्येव दशात्मनः' इति न्यायात् ज्ञानिनः क्रिया कार्योपकारका ज्ञातव्या । ज्ञानमयस्यात्मनः तत्त्वैकत्वाध्यासिनः स्वरूपारोहकाणां या क्रिया सा ज्ञानस्वरूपप्रकाशनहेतुः, आवरणनिमित्तमसक्रिया आवरणापगमाय सत्क्रियानिमित्तं भवति । तत्त्वमग्नस्य न कारणीभवति, अतः तत्त्वज्ञानस्वरूपैकत्वध्यानलीनानां (लीनेभ्यः) मुनीनां (मुनिभ्यः) । तेषामेव (तेभ्य एव) नमः ॥८॥
॥ इति व्याख्यातं मौनाष्टकम् ॥१३॥
अथ विद्याष्टकम् ॥१४॥ अथेदृग् मुनित्वं यथार्थविद्यातत्त्वोपयोगिबुद्धिमतो भवति, अतो विद्याष्टकमुपदिशति । तत्र विद्या इति नाम जीवस्याभिधानं क्रियते सा नामविद्या । अक्षवराटककाष्ठादि विद्या इति स्थाप्यते सा स्थापनाविद्या । द्रव्यविद्या लौकिका शिल्पादिरूपा । लोकोत्तरा द्विविधा कुप्रावनिका भारतरामायणोपनिषद्रूपा, लोकोत्तरा सुप्रावचनिका विद्या आवश्यकाचाराङ्गादिलक्षणा । सापि ज्ञशरीरभव्यशरीरस्य तदभ्यासवतोऽनुपयुक्तस्य द्रव्यविद्या, अथवाऽनुपयुक्तस्य हेयोपादेयपरीक्षाविकलस्य वाचना-प्रच्छना-परिवर्तना-धर्मकथारूपा अनुप्रेक्षाविकेला सर्वापि चेतनाविज्ञप्तिर्द्रव्यरूपा ज्ञेया । भावविद्या तु लोकोत्तरार्हत्प्रणीतागमरहस्याभ्यासवशतः नित्यानित्याद्यनन्तस्वभावभावितानन्तपर्यायोपेतचिद्रूपोपादेयबुद्धिः विभावाद्यनन्तपरभावपरित्याग प्तिलक्षणा । भावविद्याभ्यासस्यावसरः । तत्र मत्यादिज्ञानक्षयोपशमनिमित्ता इन्द्रियादयो नैगमेन विद्या, सर्वजीवद्रव्याणि संग्रहेण, द्रव्यश्रुतं व्यवहारेण, ऋजुसूत्रेण वाचनादि, शब्दनयेन यथार्थोपयोगः, कारणकार्यादिसंकररूपसविकल्पचेतना समभिरूढेन, निर्विकल्पचेतना क्षायोपशमिकी साधकावस्था एवं
१. मौनाष्टकम् S.M. । २. विकलापि S.M.,B.1.2.V.2. । ३. परभावत्यागज्ञप्तिः S.M. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org