SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ९६ श्रीज्ञानमञ्जरी प्राप्यन्ते नाधिकानि । एकस्मिन् योगस्थाने एको जीवो जघन्यतः एकं समयमुत्कृष्टतः अष्टौ यावत्तिष्ठत्ति। एवं योगस्थानतारतम्येन सर्वजीवेषु योगबाहुल्यं गाथाक्रमेण वक्तव्यम्[57] सुहुमनिगोआइक्खणप्पजोग बायर विगलअमणमणा । अपज्जलहु पढमदुगुरु, पज्जहस्सियरो असंखगुणो ॥५३॥ असमत्ततसुक्कोसो, पज्जजहन्नियरु एव ठिइठाणा । अपज्जेयरसंखगुणा, परमपज्जबिए असंखगुणा ॥५४॥ [शतक०कर्म० गा० ५३-५४] इत्यष्टाविंशतिभेदाल्पबहुत्वमवगन्तव्यम् । योगबाहुल्ये बहुकर्मग्राही मन्दत्वे अल्पपुद्गलग्राही इत्येवं या योगानां पुद्गलग्रहणरूपा प्रवृत्तिः तस्याः रोधः मौनमुत्तमम् । किं सतृष्णस्य बाह्ययोगरोधेन ? तस्मात् सकलविमलज्ञानाद्यनन्तगुणगणमाहात्म्यपरमात्मभावरसिकैः आत्मनो योगप्रवृत्तिः पुद्गलानुगतया रोधनीया इत्युपदेशः ॥७॥ ज्योतिर्मयीव दीपस्य, क्रिया सर्वापि चिन्मयी । यस्यानन्यस्वभावस्य, तस्य मौनमनुत्तरम् ॥८॥ ॥ इति मौनाष्टकम् ॥ १३ ॥ ज्योतिर्मयीवेति-तस्य-तत्त्वैकत्वपरिणतस्य, मौनं-योगनिग्रहरूपं स्वधर्मप्राग्भावकर्तृत्वभोक्तृत्वे व्यापारिताशेषवीर्यस्य कर्मविकरणापूर्वकरणकिट्टीकरणादिषु स्थापितवीर्यकरणस्य परभावाप्रवृत्तत्वेन मौनंयोगचापल्यतावारणरूपम्, अनुत्तरं-सर्वोत्कृष्टं यस्य क्रिया गुणप्रकर्षप्रवर्त्तना वीर्यप्रवृत्तिः सापि चिन्मयी-स्वरूपज्ञानमयी आत्मानुभवैकत्वरूपा । यथा दीपस्य या क्रिया उत्क्षेपणनिक्षेपणादिका या सर्वापि ज्योतिर्मयी-ज्ञानप्रकाशयुक्ता, तथा यस्य वन्दननमनादिगुणस्थानारोहरूपा क्रिया तत्त्वज्ञानप्रकाशिका, तस्य अनन्यस्वभावस्य-न विद्यते अन्यः-परः स्वभावो यस्य सः तस्य । परभावव्यापकचेतनाभिसन्धिवीर्यरहितस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy