________________
८४
॥ अथ निःस्पृहाष्टकम् ॥
अथ निर्लेपत्वदृढीकरणार्थं निःस्पृहत्वं विस्तार्यते, तत्र निःस्पृहत्वंसर्वपरभावानभिलाषरूपम्, इच्छामूर्च्छानिवारणम् । स्पृहा नाम इच्छा, तदभावो निःस्पृहत्वम् । तत्र नामनिःस्पृह उल्लापरूपः स्थापनानिःस्पृहः मुनिप्रतिमादिः, द्रव्यनिःस्पृह इहपरत्राधिकाभिलाषेण अल्पानिच्छक:, अथवा भावधर्मास्वादनमन्तरेण तत्स्वरूपापरिज्ञानेने धनादिषु अनिच्छुश्च । भावनिःस्पृहः अप्रशस्तः वेदान्तादिकुतीर्थोपदेशेन एकान्तमुक्तिरक्तः, धनादिषु निःस्पृहः सः । प्रशस्तः स्याद्वादानेकान्तपरीक्षापरिच्छिन्नात्मतत्त्वानुभवरुचिपिपासिताः सर्वमपि हेयीकुर्वन्ति परभावम्, भवन्ति स्वरूपलालितचेतसः । तत्र साधनार्थमादिनयचतुष्टयेन । सिद्धं च नयत्रयेण । तथा जीवाजीवे निःस्पृहः नैगमेन, अजीवे निःस्पृहः संग्रहव्यवहाराभ्याम्, ऋजुसूत्रेण स्वभोग भोग्येषु, शब्दसमभिरूढाभ्यां सन्निमित्तपरायत्तसाधनपरिणामेषु, एवंभूतेन आत्मीयसाधनपरिणामापन्नभेदज्ञानसविकल्पचरणशुक्लध्यानशैलेषीकरणादिषु निःस्पृहः । अत्र आद्यनयचतुष्टयनिःस्पृहस्यावसरः । भावना च- अनादौ संसारे स्पृहाकुलितैर्बहुशः प्राप्तं दुःखलक्षम् तेन परभावस्पृहानिरीहेण भवितव्यम् ।
स्वभावलाभात्किमपि प्राप्तव्यं नावशिष्यते । इत्यात्मैश्वर्यसम्पन्नो, निःस्पृहो जायते मुनिः ॥ १ ॥
स्वभावलाभात् इति-स्वभावः - आत्मधर्मज्ञानदर्शनरमणाव्याबाधामूर्त्तानन्दरूपाविच्छिन्नसिद्धत्वशुद्धपारिणामिकलक्षणः, तस्य लाभात् । अन्यत्किमपि प्राप्तव्यं - लब्धुं योग्यं न अवशिष्यते-अवशिष्टमस्ति आत्मस्वरूपलाभ एव लाभ इति । आत्मैश्वर्यं - स्वरूपसाम्राज्यं तेन संपन्न: - संयुक्त: मुनिः ज्ञपरिज्ञया ज्ञात्वा, प्रत्याख्यानपरिज्ञया प्रत्याख्यातद्रव्यभावाश्रवः साधुः निःस्पृहः - सर्वशरीरोपकरणपरिवारयशोबहुमानादिषु स्पृहारहितः इच्छारहितः जायते भवति । न ह्यनादितृष्णा स्वभावोप१. परज्ञानेन B. 1., V. 1 । २. समस्त: S.M., V.2 । ३. भोग्य० S. M., B. 1.2 विना । ४. अवशिष्टः B. 1.2. ।
Jain Education International
"
श्रीज्ञानमञ्जरी
-
For Private & Personal Use Only
www.jainelibrary.org