________________
तृप्त्यष्टकम् (१०)
७३ यतोऽज्ञैः तृष्णाग्रसितैः स्वीयकल्पनाकल्पितेष्टतेष्टीकृतपुद्गलस्कन्धसम्पत्तौ 'अहो ! मया प्राप्तं मणिरत्नादिव्यूह' मायोदयमाधुरीवचनचातुरीचतुरस्वजनसमूहं चेति तृप्तस्तिष्ठति, तथापि कल्पनारूपत्वात् गत्वरत्वात् औदयिकत्वात् परत्वात् स्वसत्तारोधकाष्टकर्मबन्धनिदानरागद्वेषोत्पादकत्वात् दुःखमेव तथ्या इति, मरुमरीचिकाकल्पा तृप्तिः न सुखहेतुः, तु-पुनः भ्रान्तिशून्यस्य-'मिथ्यावबोधरहितस्य सम्यग्ज्ञानोपयुक्तस्य स्वतत्त्वाभिमुखस्य तथ्या-सत्या स्वस्वभावाविर्भावानुभवात्मिका तृप्तिः सुखहेतुः । किंभूता तृप्तिः ? सात्मवीर्यविपाककृत्आत्मनः(ना) सह सात्मा, तस्य यद् वीर्यं तस्य विपाकः-पुष्टिविशेषः, तं करोतीति कृत् इत्यनेन स्वस्वाभाव्यगुणानुभवोत्था तृप्तिः आत्मनः सहजं वीर्यं पुष्टीकरोति, तेन सामर्थ्येन गुणप्राग्भावः, अतो गुरुचरणसेवनागमश्रवणतत्त्वग्रहणादिना आध्यात्मिकी तृप्तिः विधेया इत्युपदेशः ॥४॥
पुद्गलैः पुद्गलास्तृप्ति यान्त्यात्मा पुनरात्मना परतृप्तिसमारोपो, ज्ञानिनस्तन्न युज्यते ॥५॥
पुद्गलैरिति-पुद्गलैः-शरीरधनवसनभोजनस्वजनादिभिः,पुद्गला:शरीरादयः, पुद्गलोपचयरूपां तृप्ति यान्ति-पुद्गलोपचारवृद्धि यान्ति, पुनः आत्मा-अमूर्तज्ञानानन्दरूपः, आत्मना-आत्मगुणपरिणामेन ज्ञानचरणानन्दादिना तृप्ति याति स्वरूपानुभवरसिकानां स्वरूपास्वादनेन तृप्तिः । पुनः उपदिशति-ज्ञानिन:-अनेकान्तानन्तस्वपरपदार्थपरीक्षादक्षस्य तद्धान्तिजन्याभिमानं परतृप्तिसमारोपः, परैः-पुद्गलैः तृप्तिः-परतृप्तिः परतृप्तौ समारोप:-आत्मतृप्तिमान्यतारूपः न युज्यते-न घटते । भावना च सम्यग्ज्ञानी तु यथार्थावबोधी आत्मधर्ममेव आत्मनि३ अङ्गीकरोति परं परत्वेनैव वेत्ति, परधर्म परे स्थापयति, स्वधर्म स्वत्वे स्थापयति । अतः सम्यग्दृष्टिः पौद्गलिकोपचये न रज्यते । पुद्गलास्वादनेन सुखावभास एव मिथ्याज्ञानम् । उक्तं च१. तृप्तिः S.M., V.2. B.1 । २. मिथ्यात्वा० L.D.1 । ३. आत्मना S.M. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org