________________
७२
। श्रीज्ञानमञ्जरी योगव्यवच्छेदार्थः, तृप्तिः ज्ञानिनः-सम्यगवबुद्धतत्त्वस्य-तैः, स्पर्श-रसवर्ण-गन्ध-शब्दैः किम् ? न किमपि । यः स्वरूपानुभवी स विभावहेतुभूतान् इन्द्रियविषयान् नावगच्छति । कथंभूता स्वगुणैः तृप्तिः? आकालं सर्वमप्यनागतकालमविनश्वरी-विनाशरहिता, सहजत्वेन नित्या इत्यर्थः । स्पर्शज्ञानवतो यैः-शब्दादिभिः इत्वरी-अल्पेकालीया औपचारिकी तृप्तिर्भवेत् तैः-विषयैः परविलासैः किम् ? न किमपि । परविलासाः बन्धहेतवः एव । अत्र भावना-अनेकशो भुक्ता एते, तथापि नाप्तमात्मस्वरूपम्, न च ते सुखहेतवः, किन्तु सुखत्वबुद्धिरेव कृतकाः, तेन तद्विषयाभिमुखतैव न स्वरूपरसिकानामतः आत्मगुणैस्तृप्तिर्विधेया ॥२॥ तामेव भावयति
या शान्तैकरसास्वादाद्, भवेत्तृप्तिरतीन्द्रिया । सा न जिह्वेन्द्रियद्वारा, षड्रसास्वादनादपि ॥३॥
या शान्तैकेति- या अतीन्द्रिया-इन्द्रियविषयग्रहणरहिता आत्मज्ञानभोक्तृत्ववेद्या स्वरूपानुभवलक्षणा तृप्तिः, शान्तैकरसास्वादात्कषायोद्भवरहितसाम्यरसास्वादनात् भवेत्-लभेत सा-तृप्तिः षड्रसास्वादनात्-तिक्ताम्लमधुरकषायकटुक्षाररसभोजनात् जिह्वेन्द्रियद्वारा-रसनेन्द्रियद्वारा न भवति । रसनेन्द्रियेण पौद्गलिकरसानुभवः, आत्मा च स्वरूपानुभवी पुद्गलगुणानां ज्ञाता, न भोक्ता । पुद्गलगुणा अभोज्या एव । मोहोदयाद् आहारसंज्ञातः रसास्वादनं न स्वरूपतः । स्वरूपं च ज्ञानानुभवलक्षणमतः आत्मानुभवा तृप्तिः, न पौद्गलिकेति ॥३॥
संसारे स्वप्नवन्मिथ्या, तृप्तिः स्यादाभिमानिकी । .. तथ्या तु भ्रान्तिशून्यस्य; सात्मवीर्यविपाककृत् ॥४॥
संसारे इति- संसारे-द्रव्यतः चतुर्गतिरूपे, भावतः मिथ्यात्वादिविभावलक्षणे संसरणे, आभिमानिकी-मिथ्याभिमानोत्पन्ना पुद्गलादिप्राप्तमान्यतारूपा तृप्तिः, सा स्वप्नवत् मिथ्या-वितथा कल्पनारूपा एव, १. अल्पकाली सर्वप्रतिषु : २. अभेद्य. ....1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org