________________
त्यागाष्टकम् (८) त्याज्याः । धर्मसंन्यासमुत्तमं क्षायिकाभेदरत्नत्रयीरूपं स्वधर्मपरिणाम सहजपरिणमनरूपं प्राप्य-लब्ध्वा । कथंभूतं धर्मसंन्यासं ? चन्दनगन्धाभं चन्दनगन्धतुल्यम्, तिलादौ हि सुगन्धता सङ्गसम्भवा पुष्पादिनिमित्तसम्भवा, चन्दने सुगन्धता सहजरूपा तादात्म्यत्वेन-सहजेन उत्था-उत्पन्ना सहजोत्था । अनेन सहज एव आत्मनि धर्मपरिणामः स्वरूपत्वात् सहजः। स च अशुद्धतया आवृतत्वेन गुरुनिमित्तात् प्राग्भावं लभते । तत्र प्रथम सविकल्पयुतजिज्ञासादिनिमित्तसापेक्षं सम्यग्दर्शनादिकं प्रकटति । तेनैव वर्द्धमानेन निर्विकल्पमभेदरत्नत्रयीरूपं निमित्ताद्यपेक्षां विनाऽपि गुणपरिणामरूपं सहजधर्मपरिणामं परिणमयति तदा सविकल्पा साधना त्याज्या एव भवति । उक्तं च योगदृष्टिसमुच्चये
[28] द्वितीयाऽपूर्वकरणे प्रथमस्तात्त्विको भवेद् । (आयोज्यकरणादूर्ध्वम्, द्वितीय इति तद्विदः ॥१०॥) इति"
तत्र सम्यग्लाभकाले प्रथमापूर्वकरणं क्षपकश्रेणिनिवृत्तिबादरगुणस्थाने द्वितीयमपूर्वकरणम् । तत्र द्वितीये अपूर्वकरणे प्रथमः धर्मः अतात्त्विकः, स तात्त्विकः तत्त्वरूप एव भवति । भावना च यद्यपि क्षायोपशमिकाः सम्यग्दर्शनादिगुणाः अरिहन्त-(अर्हत्)प्रवचनादिस्वजातिअबाधक-विजातिपरद्रव्यमवलम्ब्य प्रवर्तन्ते परावलम्बनेन अतात्त्विकाः । तत्त्वं स्वस्वरूपं न तन्मया इति किन्तु अरिहन्तादि(अर्हदादि) गुणावलम्बिनः इति एष परानुयायिविषयाद्याश्रवपरिणतिपरित्यागेऽपि निविषय-निस्संग-तीर्थंकराद्यवलम्बनेऽपि परानुयायिताऽस्त्येव, इत्यनेन अतात्त्विकः, यस्य सम्यग्दर्शनादिगुणक्षयोपशमः स्वरूपनिर्धार-भासनरमणात्मकः अन्यनिमित्ताद्यलम्बनम् ऋते स तात्त्विकः इति । अत्र रत्नत्रयीस्वरूपे वीतरागसर्वज्ञोक्तयथार्थतत्त्वार्थश्रद्धानं सम्यग्दर्शनम् । यथार्थतत्त्वावबोधो ज्ञानम् । तत्त्वरमणं चारित्रमिति गुणत्रयीक्षयोपशमः । १. जिनाज्ञादि A.D., V.1. । २. अतात्त्विका B.1.2., V.2., S.M. । ३. यथार्थस्वतत्त्व० V.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org