SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञानमञ्जरी पडिबुद्धा सव्वे पव्वज्जमागया, 'इयलोगम्मि सम्बन्धो भमरूवो इति । युष्माकं सङ्गमोऽनादि-बैन्धवोऽनियतात्मनाम् । ध्रुवैकरूपान् शीलादिबन्धूनित्यधुना श्रये ॥२॥ युष्माकमिति- हे मातापितरौ ! हे बन्धवः ! युष्माकं सम्बन्धः अनादिसन्तत्या अनाद्यनियतात्मनामसंयतानां भवतीत्यर्थः । वा अनियतात्मनाम्-अनिश्चितस्वरूपाणाम् । मित्रं शत्रुर्भवति, शत्रुः पुनर्मित्रं भवति, अधुना ध्रुवा-निश्चिता, एकरूपा-नानाभावरहिता तान्, शीलादिबन्धून्शील-सत्य-शम-दम-सन्तोषादिबन्धून् हितकारकान् नित्यं सदा श्रये हे साधक ! शुद्धात्मगुणरूपान् बन्धून् भज ॥ २ ॥ कान्ता मे समतैवैका, ज्ञातयो मे समक्रियाः । बाह्यवर्गमिति त्यक्त्वा, धर्मसंन्यासवान् भवेत् ॥३॥ कान्ता मे इति-तत्त्वज्ञानी अभ्यन्तरसम्बन्धे रतिं करोति तदाहमे-मम स्वरूपसाधनतत्परस्य समता एव एका कान्ता-वल्लभा भोगयोग्या, इत्यनेन तत्त्वावलम्बनीभूतानां समता वनिता, समक्रिया:-साधवः मे ज्ञातयः-स्वजना इति कृत्वा बाह्यवर्ग-पुत्रकलत्रादिकं त्यक्त्वा धर्मसंन्यासवान्-गृहस्थधर्मत्यागवान् भवेत् । औदयिकसम्पदां विहाय क्षयोपशमजां स्वीयां साधनसम्पदां भजति । अनादिपरसङ्गादिविभावसम्पदां गृह्णन् इच्छन् भुञ्जन् भवाटव्यां परिभ्रमति । स एव सम्यग्ज्ञानदर्शनेन चारित्रसाधनधर्मपरिणतो मोक्षसाधको भवति ॥३॥ धर्मास्त्याज्याः सुसङ्गोत्थाः, क्षायोपशमिका अपि । प्राप्य चन्दनगन्धाभम्, धर्मसंन्यासमुत्तमम् ॥४॥ धर्मास्त्याज्या इति-क्षायोपशमिकाः-भेदरत्नत्रयीरूपाः धर्माः सुसङ्गोत्थाः-सत्सङ्गदेवगुरुप्रसङ्गसम्भवाः अपि धर्मास्त्याज्याः । क्षमादिवचनरूपा धर्मादिनिमित्ताश्रिता यद्यपि अर्वाक्काले साधनरूपा अपि १. इयलोगिग A.D. | २. बान्धवो B.1.2., V.1.2. । ३. आभ्यन्तर० A.D. । ४. प्रसङ्गा० V.2.,B.1., S.M. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy