________________
५१
इन्द्रियजयाष्टकम् (७)
नरस्स लुद्धस्स न ते वि किंचि, इच्छा हु आगाससमा अणंतया ॥४८॥
__ [उत्तरा०अ०९ गा०४८] वारमणंतं भुत्ता, वंता चत्ता य धीरपुरुसेहिं । ते भोगा पुण इच्छइ, भोत्तुं तिण्हाउलो जीवो ॥२॥
तृष्णाकुलस्यैव विषयाः रमणीयाः । सा च अनाद्यभ्यासतः विषयप्रसङ्गेन वर्द्धते । अतः इन्द्रियविषयपरित्यागो युक्तः ॥२॥
सरित्सहस्त्रदुष्पूर-समुद्रोदरसोदरः ।। तृप्तिमान्नेन्द्रियग्रामो, भव तृप्तोऽन्तरात्मना ॥३॥
सरित्सहस्रति हे भव्य ! अयमिन्द्रियग्रामः तृप्तिमान् न, कदापि न तृप्ति लभते । यतः अभुक्तेषु ईहा, भुज्यमानेषु मग्नता, भुक्तपूर्वेषु स्मरणम्, इति त्रैकालिकी अशुद्धा प्रवृत्तिः इन्द्रियार्थरक्तस्य । तेन तृप्तिः क्व ? कथंभूतः इन्द्रियग्रामः ? "सरित्सहस्रदुष्पूरसमुद्रोदरसोदरः" सरितां सहस्रं तेन दुष्पूर्यते समुद्रस्योदरं तस्य सोदरः, सहस्रशः नदीपूरैः दुष्पूरः-अपूर्यमाणः यः समुद्रस्य-जलनिधेः उदरं तस्य सोदरः भ्राता, अतः कारणात् पूर्यमाणोऽपि दुष्पूरः इन्द्रियाभिलाषः । स शमसन्तोषेणैव पूर्यते । तदर्थं हितोक्तिः- भो उत्तम ! अन्तरात्मना-आत्मनः अन्तर्गतेन स्वरूपेण तृप्तो भव । स्वरूपावलम्बनमन्तरेण न तृष्णाक्षयः । अयं हि संसारचक्रक्रोडीभूतपरभावान् आत्मतया मन्यमानः, "शरीरमेवात्मा" इति बहिर्भावे कृतात्मबुद्धिः बहिरात्मा सन् अनन्तपुद्गलावर्तकालं मोहावगुण्ठितः पर्यटति । स एव निसर्गाधिगमाभ्यां स्वरूपपररूपविभजनेन "अहं शुद्धः" इति कृतनिश्चयः सम्यग्दर्शनज्ञानचारित्रात्मकमात्मानमात्मत्वेन जानन् रागादीन् परत्वेन निर्धारयन् सम्यग्दृग् अन्तरात्मा उच्यते । स एव सम्यग्दर्शनलाभकाले निर्धारिततत्त्वस्वरूपपूर्णप्राप्तौ परमात्मा परमानन्दमयसम्पूर्णस्वधर्मप्राग्भावभोगी सिद्धो भवति । तेन मिथ्यात्वमपहाय आत्मस्वरूपभुञ्जनेन उच्छिष्टमलजम्बालोपमान् विषयान् त्यजति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org