________________
शमाष्टकम् (६)
४७ रमणाभावः, अनागतकालमनोज्ञविषयेच्छाभाववान्? मुनिः, येन उपमानेन उपमीयते चराचरे-विश्वे असौ कोऽपि न जगति, यत् तत्सर्वम् अचेतनपुद्गलस्कन्धजं मूर्तं च, तत् समतारसेन सहजात्यन्तिकनिरुपमचरितशमभावस्वरूपेण कथमुपमीयते ? दुर्लभो हि समतारसः, विश्वेशुभाशुभभावे परत्वेन अरक्तद्विष्टतया वृत्तिः शुद्धात्मानुभवः । उक्तं चः[23] वंदिज्जमाणा न समुक्कसंति, हेलिज्जमाणा न समुज्जलंति। दंतेण चित्तेण चलंति धीरा, मुणी समुग्धाइयरागदोसा ॥८६६॥
[आव०नि० गा० ८६६] [24] बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं । विरत्तकामाण तवोधणाणं, जं भिक्खुणो सीलगुणे रयाणं ॥१७॥
[उत्तरा०अ०१३-गा० १७] इति समतास्वादिनां नरेशभोगाः रोगाः, चिन्तामणिसमूहाः कर्करव्यूहाः, वृन्दारकाः दारका इव भासन्ते, अतः संयोगजा रतिर्दुःखम्, समतैव महानन्दः ॥६॥
शमसूक्तसुधासिक्तम्, येषां नक्तंदिनं मनः । कदापि ते न दह्यन्ते, रागोरगविषोर्मिभिः ॥७॥
शमसूक्त इति-येषां-महात्मनाम्, मन:-चित्तं शमः-कषायाभावः, चारित्रपरिणामः तस्य सूक्तानि-सुभाषितानि, तदेव सुधा-अमृतम्, तेन सिक्तमभिषिञ्चितं मनः नक्तंदिनम्-अहोरात्रम्, ते रागोरगविषोर्मिभि:रागः-अभिष्वङ्गलक्षणः स एव उरगः-सर्पः तस्य विषस्य ऊर्मयः ताभिः ते, शमतासिक्ता न दह्यन्ते, जगज्जीवा रागाहिदष्टाः, विषयेघूर्मघूमिताः भ्रमन्तः(भ्रमन्ति), इष्टसंयोगानिष्टवियोगचिन्तया, विकल्पयन्ति बहुविधान् अग्रशोचादिकल्पनाकल्लोलान्, संग्रहन्ति अनेकान् जगदुच्छिष्टान् पुद्गलस्कन्धान्, याचयन्ति अनेकान् धनोपार्जनोपायान्, १. भावात् V.1.2. B.1.2. । २. विषयघूमि B.1.2, V.1.2। १. धनार्जनो० B.1 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org