________________
श्रीज्ञानमञ्जरी विकारान् मूलाद् उन्मूलयति ॥४॥
ज्ञानध्यानतपःशील-सम्यक्त्वसहितोऽप्यहो । तं नाजोति गुणं साधुर्यमाप्नोति शमान्वितः ॥५॥
ज्ञानध्यानेति-ज्ञान-तत्त्वावबोधः, ध्यानं-परिणामस्थिरतारूपम्, तपः-इच्छानिरोधः, शीलं-ब्रह्मचर्यम्, सम्यक्त्वं-तत्त्वश्रद्धानम्, पदानामुत्क्रमता द्वन्द्वसमासात् । इत्यादिगुणोपेतः साधुः, साधयति रत्नत्रयकरणेन मोक्षं स साधुस्तं निरावरणगुणं-केवलज्ञानादिगुणं नाप्नोति-न प्राप्नोति, यं गुणं शमान्वितः-समताचारित्रमयः आप्नोति-प्राप्नोति लभते इत्यर्थः । अत्र ज्ञानादयो गुणा निरावरणाऽमलकेवलज्ञानस्य परम्पराकारणं शमः-कषायाभावः, यथाख्यातसंयमः केवलज्ञानस्यासन्नकारणम्, अश्वकरण-समीकरण-किट्टीकरणवीर्येण सूक्ष्मलोभं खण्डशः खण्डशः कृत्वा क्षयं नीते सति निर्विकल्पसमाधौ अभेदरत्नत्रयीपरिणतः क्षीणमोहावस्थायां यथाख्यातचारित्री परमशमान्वितः ज्ञानावरणदर्शनावरणान्तरायक्षयं नयति, लभते च २सकलामलं केवलज्ञानं केवलदर्शनं परमदानादिलब्धी:३, अत एव क्षायोपशमिकज्ञानी यं न प्राप्यते तं परमशमान्वितः प्राप्यते(प्राप्नोति) अत एव धीराःदर्शनज्ञाननिपुणाः अभ्यसन्ति पूर्वाभ्यासम्, आश्रयन्ते. गुरुकुलवासम्, रमन्ते निर्जने वने, तेन आत्मविशुध्यर्थी शमपूरणे उद्यतते ॥५॥
स्वयंभूरमणस्पधि-वद्धिष्णुसमतारसः । मुनिर्येनोपमीयेत, कोऽपि नासौ चराऽचरे ॥६॥
स्वयंभू इति-स्वयंभूरमणः-अर्द्धरज्जुप्रमाणः प्रान्तसमुद्रः, तस्य स्पर्धी-स्पर्धाकारी, वद्धिष्णुः-वर्द्धमानः, समतारसः-समता-रागद्वेषाभावः, तस्या रस: समतारसः, एवंविधः मुनिः, त्रिकालाविषयी, अतीतकालरमणीयविषयस्मरणाभावः, वर्तमानेन्द्रियगोचरप्राप्तविषय१. गते० S.M.,V.1. याते V.2.,B.2. । २. सकलाकला V.1.2., B.2. । ३. लब्धयः B.1.2., V.2., S.M., A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org