________________
शमाष्टकम् (६) आद्यनयचतुष्टये भावशमादिस्वरूपगुणपरिणमनहेतुः मनोवाक्कायसंकोचविपाकचिन्तनतत्त्वज्ञानभावनादिः, अन्त्यनयत्रये क्षयोपशमशमादिः शब्दनयेन क्षपक श्रेणिमध्यवर्तिसूक्ष्मकषायवतः, समभिरूढनयेन क्रोधादिशमः क्षीणमोहादिषु, एवंभूतनयेन कषायशमः । अत्र भावनाचिन्तास्मृतिविपाकभयादिकारणतः क्षयोपशमभावादिसाधनतः क्षायिकशमः साध्यः । एवं शमपरिणतिः करणीया । आत्मनो मूलस्वभावत्वात् मूलधर्मपरिणमनं हितम् । तेनैव कारणेन शुद्धाध्यात्मपदप्रवृत्तिः सङ्गत्यागात्मध्यानसंवरीचञ्चरीकत्वं करणीयम् ।
विकल्पविषयोत्तीर्णः, स्वभावालम्बनः सदा । ज्ञानस्य परिपाको यः, स शमः परिकीर्तितः ॥१॥
विकल्पेति- विकल्प:-चित्तविभ्रमः, तस्य विषयः-विस्तारः, तेन (ततः) उत्तीर्णः-निवृत्तः आत्मास्वादनतः वर्णादिषु निवृत्तविषयः । स्वभावः-अनन्तगुणपर्यायसम्यग्ज्ञानदर्शनचारित्रस्वरूपः, तस्यालम्बनः स्वभावालम्बनः । इत्यनेन आत्मस्वभावदर्शी, आत्मस्वभावज्ञानी, आत्मस्वभावरमणी(णः), आत्मस्वभावविश्रामी, आत्मस्वभावास्वादी, शुद्धतत्त्वपरिणतः । ज्ञानस्य-आत्मोपयोगलक्षणस्य परिपाक:-प्रौढावसरः, स शमः-शमभावलक्षणः परिकीर्तितः । अत्र योगस्य पञ्चविधत्वं प्रोक्तं हरिभद्रपूज्यैः अध्यात्मयोगः १ भावनायोगः २ ध्यानयोगः ३ समतायोगः ४ वृत्तिक्षययोगः ५, तत्र अनादिपरभावौदयिकभावरमणीयता धर्मत्वेन निर्धार्य तत्पुष्टिहेतुक्रियां कुर्वन् अधर्मं धर्मवृत्त्या इच्छन् प्रवृत्तः स एव निरामयनिःसङ्गशुद्धात्मभावनाभावितान्त:करणस्य स्वभाव एव धर्म इति योगवृत्त्या अध्यात्मयोगः १ सर्वपरभावान् अनित्यादिभावनया विबुध्य अनुभवभावनया स्वरूपाभिमुखयोगवृत्तिमध्यस्थ आत्मानं मोक्षोपाये युञ्जतः भावनायोगः २ स एव पिण्डस्थ-पदस्थ-रूपस्थ-रूपातीतध्यानपरिणतरूपैकत्वी ध्यानयोगी भण्यते ३ ध्यानबलेन भस्मीभूतमोहकर्मा तप्तत्वादिपरिणतिरहितः
१. तत्र S.M.,V.1.2., B.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org