________________
४२
श्रीज्ञानमञ्जरी पीयूष इति- असमुद्रोत्थं पीयूषममृतम्, अनौषधम्-औषधरहितं रसायनं-जरामरणनिवारकम्, अनन्यापेक्षम्- अन्यत्-१परवस्तु तस्य अपेक्षया रहितम्, ऐश्वर्यम्-आश्चर्यमिति पाठे-आश्चर्य-चमत्कारम् ज्ञानम्, स्वपरावभासनलक्षणम् आहुः मनीषिणः-पण्डिताः । इत्यनेन वस्तुतः मरणवारकं सर्वरोगमुक्तिहेतु रसायनं ज्ञानं वस्तुतः अवलोकनचमत्कारि ज्ञानम्, इत्येवमात्मज्ञानं परममुपादेयं ज्ञानं यथावबोधपरभावत्यागलक्षणं स्मृतम् । इत्यनेन अनादिपरभावपरिणतस्य मिथ्यात्वाज्ञानासंयममोहितस्य परभावोत्पन्नात्मरोधकपरिणति तत्त्वत्वेनाङ्गीकुर्वन् परभावमोहितः भ्रमति सूक्ष्मनिगोदादिचतुर्दशसु जीवस्थानेषु । स च तत्त्वज्ञानामृतपरिणतः आत्मा मिथ्यात्वादिदोषान् विहाय सम्यग्दर्शनज्ञानचारित्रकोटिमारूढः स्वरूपावभासनानन्दी सर्वदोषरहितो भवति, अत एवामृतं रसायनं ज्ञानम् तदर्थम् एवोद्यमः कार्यः ॥८॥
॥ इति व्याख्यातं ज्ञानाष्टकम् ॥ ५ ॥ ३अथ पञ्चमज्ञानाष्टककथनानन्तरं षष्ठं शमाष्टकं प्रारभ्यते
ज्ञानी हि ज्ञानात् क्रोधादिभ्य उपशमति (उपशाम्यति), अतः शमाष्टकं विस्तार्यते षष्ठम् । तत्र आत्मनः क्षयोपशमाद्याः परिणतयः स्वभावपरिणामेन परिणमन्ति न तप्तादिपरिणतौ स शमः । नामस्थापनाशमौ सुगमौ, द्रव्यशमः परिणत्यसमाधौ प्रवृत्तिसंकोचः द्रव्यशमः आगमतः शमस्वरूपपरिज्ञानी अनुपयुक्तः, नोआगमतः मायया लब्धिसिद्ध्यादिदेवगत्याद्यर्थम् उपकारापकारविपाकक्षमादिक्रोधोपशमत्वम् । भावतः उपशमस्वरूपोपयुक्तः आगमतः, नोआगमतो मिथ्यात्वमपहाय यथार्थभासनपूर्वकचारित्रमोहोदयाभावात् क्षमादिगुणपरिणतिः शमः । सोऽपि लौकिकलोकोत्तरभेदाद् द्विविधः५, लौकिक:वेदान्तवादिनां लोकोत्तरः-जैनप्रवचनानुसारिशुद्धस्वरूपरमणैकत्वम्,
१. परवस्तुरहितं B.1.2., V.2. S.M. । २. वारकः ज्ञानं वस्तुतः B.1.2., V.2., S.M. | ३. एष पाठो नास्ति B.1.2., V.2., S.M. I ४. नामशम० A.D. । ५. एष पाठो नास्ति B.1.2., V.2., S.M. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org