________________
प्रथमतो निरन्तरं वयम् । एतदुक्तं भवान
किन्तु प्रथम
ज्ञानाष्टकम् (५) [18] ("मंदविसोही पढमस्स, संखभागाहि पढमसमयम्मि ।
उक्स्सं उप्पिमहो, एक्केवं दोण्हं जीवाणं ॥१०॥ आचरमाओ सेसुक्कोसं, पुव्बप्पवत्तमिइनामं ।) बीयस्स बीयसमये, जहण्णमवि अणंतरुक्कस्सा" ॥ ११ ॥
[कर्मप्र०-उप०क० गा० १०-११] इत्यादिवचनात् । द्वितीयस्य अपूर्वकरणस्य यो द्वितीयः समयः कृतजघन्यमपि विशोधिस्थानादनन्तगुणं वक्तव्यम् । एतदुक्तं भवति-नेह यथाप्रवृत्तकरणवत् प्रथमतो निरन्तरं विशोधिस्थानमनन्तगुणं वक्तव्यम्, किन्तु प्रथमसमये प्रथमतो जघन्या विशोधिः सर्वस्तोका, सापि च यथाप्रवृत्तकरणचरमसमयभाविन उत्कृष्टा विशोधिरनन्तगुणा, ततोऽपि तस्मिन्नेव द्वितीयसमये उत्कृष्टा विशोधिरनन्तगुणा, एवं प्रतिसमये तावद्वाच्यं यावच्चरमसमये उत्कृष्टा विशोधिः । अपूर्वाणि करणानि स्थितिघात-रसघात-गुणश्रेणि-स्थितिबन्धादीनां निवर्तनानि यस्मिन् तत् अपूर्वकरणम् । तथाहि-अपूर्वकरणे प्रविशन् प्रथमसमय एव स्थितिघातं रसघातं गुणश्रेणिं स्थितिबन्धं चान्यं युगपदारभते । तत्र स्थितिघातः स्थितिसत्कर्मणोऽग्रिमभागादुत्कर्षतः उदधिपृथक्त्वप्रमाणम्, जघन्येन पुनः पल्योपमसङ्ख्येयभागमात्रं स्थितिकण्डकमुत्किरति उत्कीर्य च या स्थितिः अधो न खण्डयिष्यति (ते) तत्र तद्दलिकं प्रक्षिपति, अन्तर्मुहूर्तेन कालेन तत् स्थितिकण्डकमुत्कीर्यते । एवं द्वितीयम्, एवं तृतीयम्, एवं प्रभूतानि स्थितिखण्डसहस्राणि व्यतिक्रामन्ति, तथा च सति यदपूर्वकरणस्य प्रथमसमये स्थितिसत्कर्म आसीत् तत्तस्यैव चरमसमये सङ्ख्येयगुणहीनं जातम् । रसघाते तु अशुभानां प्रकृतीनां यदनुभागसत्कर्म तस्य अनन्ततमं भागं मुक्त्वा शेषाननन्तानुभागभागादन्तिमवृत्तेन विनाशयति, ततः पुनरपि तस्य प्रागुक्तस्यानन्ततमं भागं शेषान् विनाशनम् (विनाशयति) । एवमनेकान्यनुभागखण्डसहस्राणि एकस्मिन् स्थितिखण्डे व्यतिक्रामन्ति, तेषां च स्थितिखण्डानां सहस्रैः द्वितीयमपूर्वकरणं परिसमाप्यते । स्थितिबन्धाद्धा तु अपूर्वकरणस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org