SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ३८ : श्रीज्ञानमञ्जरी ऽसङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणानि अध्यवसायस्थानानि भवन्ति, तथाहि-यथाप्रवृत्तकरणे प्रथमसमये विशोधिस्थानानि नानाजीवापेक्षया असङ्ख्येयलोकाकाशप्रदेशप्रमाणानि, द्वितीयसमये विशेषाधिकानि, ततोऽपि तृतीयसमये विशेषाधिकानि, एवं यावच्चरमसमये, एवमपूर्वकरणेऽपि द्रष्टव्यम् । अमूनि चाध्यवसायस्थानानि यथाप्रवृत्ताऽपूर्वकरणयोः सम्बन्धीनि स्थाप्यमानानि विषमचतुरस्रक्षेत्रमावृण्वन्ति, तयोरुपरि चानिवृत्तिकरणाध्यवसायानि मुक्तावलीसंस्थानि उपर्युपर्यमूनि अनुचिन्त्यमानानि प्रतिसमयमनन्तगुणवृद्ध्या प्रवर्त्तमानान्यवगन्तव्यानि तिर्यक्षस्थानपतितानि । इह कल्पनया द्वौ पुरुषौ युगपत्करणप्रतिपन्नौ विवक्ष्येते, तत्रैकः सर्वजघन्यया श्रेण्या प्रतिपन्नः, अपरः सर्वोत्कृष्टया विशोध्या । प्रथमजीवस्य प्रथमसमये मन्दा, द्वितीयसमयेऽनन्तगुणा, तृतीयेऽनन्तगुणा एवं यावत् येषां यथाप्रवृत्तकरणस्य सङ्ख्येयो भागो गतो भवति, ततः प्रथमसमये द्वितीयस्य जीवस्योत्कृष्टं विशोधिस्थानमनन्तगुणं वक्तव्यम्, ततोऽपि द्वितीये उत्कृष्टा विशोधिरनन्तगुणा, ततः उपरि जघन्यविशोधिः अनन्तगुणा, एवमुपर्यधश्च एकैकं विशोधिस्थानमनन्तगुणं द्वयोर्जीवयोस्तावन्नेयं यावच्चरमसमये जघन्यविशोधिस्ततः आचरमात् चरममभिव्याप्य यानि आमुक्तानि शेषाण्युत्कृष्टानि स्थानानि तानि क्रमेण निरन्तरमनन्तगुणानि वक्तव्यानि, तदेवं समाप्तं यथाप्रवृत्तकरणम् । अस्य च यथाप्रवृत्तकरणस्य पूर्वप्रवृत्तमिति द्वितीयं नाम । शेषकरणाभ्यां पूर्व-प्रथमं प्रवृत्तं पूर्वप्रवृत्तमिति । अस्मिश्च यथाप्रवृत्तकरणे स्थितिघातरसंघातौ गुणश्रेणिर्वा न प्रवर्त्तन्ते केवलमुक्तरूपा विशोधिरेवानन्तगुणा । यानि वाऽप्रशस्तानि कर्माण्यत्र स्थितो बध्नाति तेषामनुभागं द्विस्थानकं बध्नाति, यानि च शुभानि तेषां चतुःस्थानकम्, स्थितिबन्धेऽपि च पूर्णे पूर्णे सत्यन्यं स्थितिबन्धं पल्योपमसङ्ख्येयभागन्यूनं च बध्नाति । सम्प्रति अपूर्वकरणमभिधीयते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy