SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आत्म देहान्तरज्ञानजनिताल्हाद निर्वृतः । तपसा दुष्कृतं घोरं भुञ्जानोऽपि न खिद्यते ॥ ३४ ॥ रागद्वेषादि कल्लोलैरलोलं यन्मनोजलम् । स पश्यत्यात्मनस्तत्वं स तत्त्वं नेतरो जनः ॥ ३५॥ अविक्षिप्तंमनस्तत्त्वं विक्षिप्तं भ्रान्तिरात्मनः । धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्ततः ॥ ३६ ॥ ? अविद्याभ्याससंस्कारै रवशं क्षिप्यते मनः । तदैव ज्ञानसंस्कारैः स्वतस्तत्त्वेऽवतिष्ठते ॥३७॥ अपमानादयस्तस्य, विक्षेपो यस्य चेतसः । नापमानादयस्तस्य न क्षेपो यस्य चेतसः ॥ ३८ ॥ " यदा मोहात्प्रजायेते, रागद्वेषौ तपस्विनः । तदैव भावयेत्स्वस्थमात्मानं शाम्यतः क्षणात् ॥ ३९ ॥ यत्र काये मुनेः प्रेम, ततः प्रच्याव्य देहिनम् । बुद्धया तदुत्तमे काये, योजयेत्प्रेम नश्यति ॥४०॥ आत्मविभ्रमजं दुःखमात्मज्ञानात्प्रशाम्यति । नायतास्तत्र निर्वान्ति कृत्वापि परमं तपः ॥४१॥ , शुभं शरीरं दिव्यांश्च विषयानभिवाञ्च्छति । उत्पन्नात्ममतिर्देहे, तत्त्वज्ञानी ततच्युतिम् ॥४२॥ परत्राहम्मतिः स्वस्माच्युतो बध्नात्यसंशयम् । स्वस्मिन्नहम्मतिश्च्युत्वा, परस्मान्मुच्यते बुधः ॥ ४३ ॥ दृश्यमानमिदं मूढस्त्रिलिंगमवबुध्यते । इदमित्यवबुद्धस्तु, निष्पन्नं शब्दवर्जितम् ॥४४॥ जानन्नप्यात्मनस्वत्त्वं, विविक्तं भावयन्नपि । पूर्वविभ्रमसंस्काराद् भ्रान्ति भूयोऽपि गच्छति ॥४५॥ . १६ Jain Education International For Private & Personal Use Only આતમ ઝંખે છુટકારો www.jainelibrary.org
SR No.001998
Book TitleAtama Zankhe Chutkaro
Original Sutra AuthorN/A
AuthorSunandaben Vohra
PublisherAnandsumangal Parivar
Publication Year2000
Total Pages348
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Spiritual, Ethics, & Sermon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy