________________
यथाऽसौ चेष्टते स्थाणी, निवृत्ते पुरुषाग्रहे। तथाचेष्टोऽस्मि देहादौ, विनिवृत्तात्म विभ्रमः ॥२२॥ येनात्मनाऽनुभूयेऽहमात्मनैवात्मनात्मनि । सोऽहं न तन सा नासौ, नैको न द्वौ न वा बहुः ॥२३॥ यद्भावे सुषुप्तोऽहं, यद्भावे व्युत्थितः पुनः । अतीन्द्रियमनिर्देश्य, तत्स्वसंवेद्यमस्म्यहम् ॥२४॥ क्षीयन्तेऽत्रैव रागाद्यास्तत्त्वतो मां प्रपश्यतः। बोधात्मानं ततः कश्चिन मे शत्रुर्न च प्रियः ॥२५॥ मामपश्यन्नयं लोको, न मे शत्रुर्न च प्रियः । मां प्रपश्यत्रयं लोको, न मे शत्रुर्न च प्रियः ॥२६॥ त्यक्त्वैवं बहिरात्मानमन्तरात्मव्यवस्थितः। भावयेत्परमात्मानं सर्वसंकल्पवर्जितम् ॥२७॥ सोऽहमित्यात्तसंस्कारस्तस्मिन् भावनया पुनः। तत्रैव दृढसंस्काराल्लभते ह्यात्मनि स्थितिम ॥२८॥ मूढात्मा यत्र विश्वस्तस्ततों नान्यद् भयास्पदम् । यतो भीतस्ततो नान्यदभयस्थानमात्मनः ॥२९॥ सर्वेन्द्रियाणि संयम्य, स्तिमितेनान्तरात्मना । यत्क्षणं पश्यतो भाति, तत्तत्त्वं परमात्मनः ॥३०॥ यः परात्मा स एवाऽहं, योऽहं स परमस्ततः। अहमेव मयोपास्यो, नान्यः कश्चिदितिस्थितिः ॥३१॥ प्रच्याव्य विषयेभ्योऽहं, मां मयैव मयि स्थितम् । बोधात्मानं प्रपन्नोऽस्मि, परमानंदनिर्वृतम् ॥३२॥ यो न वेत्ति परं देहादेवमात्मानमव्ययम । लभते स न निर्वाणं, तप्त्वाऽपि परमं तपः ॥३३॥
३१४
આતમ ઝંખે છુટકારો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org