________________
स्वदेहसदृशं दृष्ट्वा , परदेहमचेतनम् । परात्माधिष्ठितं मूढः, परत्वेनाध्यनस्यति ॥१०॥ स्वपराध्यवसायेन, देहेष्वविदितात्मनाम् । वर्त्तते विभ्रमः पुंसां, पुत्रभार्यादि गोचरः ॥११॥ अविद्यासंज्ञितस्तस्मात्संस्कारो जायते दृढः । येन लोकोऽङ्गमेव स्वं पुनरप्यभिमन्यते ॥१२॥ देहे स्वबुद्धिरात्मानं युनक्त्येतेन निश्चयात् । स्वात्मन्येवात्मधीस्तस्माद्वियोजयति देहिनं ॥१३॥ देहेष्वात्मधिया जाता पुत्रभार्यादिकल्पनाः। सम्पत्तिमात्मनस्ताभिर्मन्यते हा हतं जगत् ॥१४॥ मूलं संसारदुःखस्य, देह एवात्मधीस्ततः । त्यक्त्वैनां प्रविशेदन्तर्बहिरव्यापृतेन्द्रियः ॥१५॥ मत्तश्च्युत्वेन्द्रियद्वारैः पतितो विषयेष्वहम् । तान् प्रपद्याऽहमिति मां, पूरा वेद न तत्त्वतः ॥१६॥ एवं त्यक्त्वा बहिर्वाचं, त्यजेदन्तरशेषतः। एष योगः समासेन, प्रदीपः परमात्मनः ॥१७॥ यन्मया दृश्यते रूपं, तन्न जानाति सर्वथा । जानन दृश्यते रूपं, ततः केन ब्रवीम्यहम्॥१८॥ यत्परैः प्रतिपाद्योऽहं, यत्परान् प्रतिपादये । उन्मत्तचेष्टितं तन्मे, यदहं निर्विकल्पकः ॥१९॥ यदग्राह्यं न गृहाति; गृहीतं नापि मुंचति; जानाति सर्वथा सर्वं, तत्स्वसंवेद्यमस्म्यहं ॥२०॥ उत्पत्रपुरुषभ्रान्तः स्थाणौ यद्वद्विचेष्टितम् । तद्वन्मे चेष्टितं पूर्व, देहादिष्वात्मविभ्रमात् ॥२१॥
૩૧૨ Jain Education International
આતમ ઝંખે છુટકારો
For Private & Personal Use Only
www.jainelibrary.org