SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 390 આ. શ્રી પ્રભેન્દુ તથા શ્રી પ્રભાચંદ્ર રચિત સમાધિતંત્રના મૂળ સંસ્કૃત શ્લોક येनात्माऽबुध्यतात्मैव, परत्वेनैव चापरम् । अक्षयाऽनन्तबोधाय तस्मै सिद्धात्मने नमः ॥१॥ , जयन्ति यस्याऽवदतोऽपि भारती, विभूतयस्तीर्थकृतोऽप्यनीहितुः ॥ शिवाय धात्रे सुगताय विष्णवे, जिनाय तस्मै सकलात्मने नमः ॥२॥ श्रुतेन लिंगेन यथात्मशक्ति समाहितान्तः करणेन सम्यक् । समीक्ष्य कैवल्यसुखस्पृहाणां विविक्तमात्मानमथाभिधास्ये ॥ ३॥ बहिरन्तः परश्चेति, त्रिधात्मा सर्व देहिषु । उपेयात्तत्र परमं मध्योपायाद्बहिस्त्यजेत् ॥ ४ बहिरात्मा शरीरादी, जातात्मभ्रान्तिरान्तरः । चित्तदोषात्मविभ्रान्तिः परमात्माऽतिनिर्मलः ॥५॥ , निर्मलः केवलः शुद्धो, विविक्तः प्रभुरव्ययः । परमेष्ठी परात्मेति, परमात्मेश्वरो जिनः ॥६॥ Jain Education International बहिरात्मेन्द्रियद्वारै, रात्मज्ञान पराङ्गमुखः । स्फुरितः स्वात्मनो देहमात्मत्वेनाध्यवस्यति ॥७॥ नरदेहस्थमात्मानमविद्वान् मन्यते नरम् । तिर्यञ्चं तिर्यगङ्गस्थं सुराङ्गस्थं सुरं तथा ॥ ८॥ नारकं नारकांगस्थं, न स्वयं तत्त्वतस्तथा । अनन्तानन्तधीशक्तिः, स्वसंवेद्योऽचल स्थितिः ॥ ९ ॥ For Private & Personal Use Only આતમ ઝંખે છુટકારો www.jainelibrary.org
SR No.001998
Book TitleAtama Zankhe Chutkaro
Original Sutra AuthorN/A
AuthorSunandaben Vohra
PublisherAnandsumangal Parivar
Publication Year2000
Total Pages348
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Spiritual, Ethics, & Sermon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy