________________
भीमसेनराजर्षिकथा
२८५
सुभद्राकुक्षिजस्तस्याऽभवदेष तनूरुहः । (भी) भूमसेनाभिधोभूमो( मा) द्यूतादिव्यसनी रादा ॥३॥ आ( अन्यायैकगृहं शस्वलोकसंतापकारकः । गुरुदेवांश्च पितरौ द्विषन् सोऽभूत् कुलक्षणः ॥४॥ प्रादात्पिता क्रमेणाऽथ भीमसेनस्य तादृशः । यौवराज्यपदं राज्यपदादपि मनोहरं ॥५॥ सलब्धयौवराज्य श्रीरन्यायैकनिकेतनं । परस्त्रियं परद्रव्यं हरन् पीडयति प्रजां ॥६॥ अन्यदा सकलैलोकैर्वज्रसेनो महीपतिः । समेत्य भीमदुर्नीति<नै विज्ञप्त इत्यपि ॥७॥ राजसूनो न चैतस्य विज्ञप्तियुज्यते विभो ! । तथापि चेतसि कियत् दुखं स्थापयितुं क्षमाः ॥८॥ आकंठमस्य दुायैः संभृताः स्मो महीपते । तद्विमृश्य प्रजापाल ! यथोचितमुपाचर ॥९॥ श्रुत्वा जा( रा )जेति तं लोकं सांतयित्वाऽतिरामणीः । दत्त्वा किंचित् प्रसादं च पुनः प्रैषन्निजालयात् ॥१०॥ कुमारं तं समाहूय राजा शिष्या (क्षा) मदादिति । लोकाराधनवान् वत्स ! यशोऽर्जय सुदुर्लभं ॥११॥ न परस्त्रीपरद्रव्यापहारः क्रियते नृपैः । पित्रो रो जिनभक्तिः सचिवोक्तिश्च चिंत्यते ॥१२॥ स्वीकार्यः सर्वथान्यायोऽन्यायो नेयोऽतिदूरतः । वाक्प्रतिष्ठा धृतिधर्मा सप्तव्यसन्-मुद्रणा ॥१३॥ अयमेव परो धर्मः प्रायः पृथ्वीभृतामपि । समाश्रितः श्रियं कीर्ति-यशः स्वर्गं प्रयच्छति ॥१४॥ राज्ञाऽनुवेलमित्येष शिक्षितोऽपि न सो त्यजन् । दुवृत्तं वा विषं सर्पोऽमृतपानं भजन्नपि ॥१५॥ अशक्याऽविनयत्राणं तं परिज्ञाय भूपतिः । चिक्षेप निगडे सूनुं प्रसूततनुमाईवं ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org