________________
परिशिष्ट-१४
दो शब्दों का अर्थभेद
(ग्रंथकार और टीकाकार ने प्रसंगवश दो शब्दों में होने वाले अर्थभेद को प्रकट किया है। भाषाविज्ञान के क्षेत्र में शोध करने वाले विद्यार्थियों के लिए यह परिशिष्ट अत्यन्त महत्त्वपूर्ण होगा।) औषध और भेषज औषधानि केवलहरीतक्यादीनि, भेषजानि तु तेषामेव व्यादीनामेकत्र मीलित्वा चूर्णानि।
(मवृ प. १९) निष्ठित और कृत
असणादीण चउण्ह वि, आमं जं साहुगहणपाउग्गं। तं निट्ठितं वियाणसु , उवक्खडं तू कडं होति ॥
(गा. ७९) आधाकर्म और कमौद्देशिक
यत् प्रथमत एव साध्वर्थं निष्पादितं तदाधाकर्म, यत् प्रथमतः सद् भूयोऽपि पाककरणेन संस्क्रियते तत्कौद्देशिकम्।
__ (मवृ प. ८२) अध्यवपूरक और मिश्रजात
मिश्रजातं तदुच्यते यत्प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थं च मिश्रं निष्पाद्यते, यत्पुनः प्रथमत आरभ्यते स्वार्थं पश्चात्प्रभूतानर्थिनः पाषण्डिनः साधून् वा समागतानवगम्य तेषामर्थायाधिकतरं जलतण्डुलादि प्रक्षिप्यते सोऽध्यवपूरक इति।
मिश्रजाते प्रथमत एव स्थाल्यां प्रभूतं जलमारोप्यते, अधिकतराश्च तण्डुलाः कण्डनादिभिरुपक्रम्यन्ते, फलादिकमपि च प्रथमत एव प्रभूततरं संरभ्यते, अध्यवपूरके तु प्रथमतः स्वार्थं स्तोकतरं तण्डुलादि गृह्यते, पश्चाद्यावदर्थिकादिनिमित्तमधिकतरं तण्डुलादि प्रक्षिप्यते, तस्मात्तण्डुलादीनामादानकाले यद्विचित्रं परिमाणं तेन मिश्राध्यवपूरकयो नात्वमवसेयम्। (मवृ प. ११५, ११६) विद्या और मंत्र
विद्या स्त्रीरूपदेवताधिष्ठिता ससाधना वाऽक्षरविशेषपद्धतिः, सैव पुरुषदेवताधिष्ठिता असाधना वा मन्त्रः।
(मवृ प. १२१) जाति और कुल मातुः समुत्था जातिः, पितृसमुत्थं कुलम्।
(मवृ प. १२९) कर्म और शिल्प
___ कर्म-कृष्यादि, शिल्पं-तूर्णादि-तूर्णनसीवनप्रभृति, अथवा अनावर्जकम् अप्रीत्युत्पादकं कर्म इतरत्तु आवर्जकं प्रीत्युत्पादकं शिल्पम्, अन्ये त्वाहुः-अनाचार्योपदिष्टं कर्म, आचार्योपदिष्टं तु शिल्पम्।
(मवृ प. १२९) १. निचू भा. ३ पृ. ४१२; कम्मसिप्पाणं इमो विसेसो-विणा आयरिओवदेसेण जं कज्जति तणहारगादि तं कम्म, इतरं पुण जं आयरिओवदेसेण कज्जति तं सिप्पं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |