________________
सप्ततिकाख्यः पञ्चमः संग्रहः
पर्याप्ताऽस्त्यपूर्णानं तदेवाष्टाविंशतम् । तत्कालमन्यघातासद्गतियुक्तं द्विभङ्गयुक् ॥ १३२॥
२८ । अत्रायशः कीदये एको भङ्गः १ यशः कोयुदये एको भङ्गः १ । अयशः कीर्त्त्यादयेऽप्येकः कुतः ? प्रतिपक्षप्रकृत्युदयाभावात् । मिलितौ भङ्गौ २ । पर्याप्तानस्य सोच्छ्वासमेकान्नत्रिंशतं भवेत् । यावद्वाक्पूर्णतां कालोऽन्तर्मुहूर्त्तो द्विभङ्गयुक् ॥१३३॥
२। भङ्गौ २।
स्थानं त्रिंशतमेतत्स्याद्वापर्याप्तौ सदुःस्वरम् । जीवितान्ता परा चास्य वर्षाणि द्वादश स्थितिः ॥ १३४ ॥ ३०|भङ्गौ २ । स्थितिर्जघन्येनान्तर्मुहूर्त्तमुत्कर्षेण द्वादश वर्षाणि ।
उद्योतोदभाग्यक्षे पडेकाग्रे च विंशती । स्यातां पूर्वोदिते किन्तु नास्त्यपर्याप्तकेऽन्तयोः ॥ १३५ ॥ २१।२६। अत्र पुनरुक्तौ भङ्गौ द्वौ द्वौ २२ सोद्योताशस्तगत्यन्यघातं पाविंशतं भवेत् । एकान्नत्रिंशतं पूर्णाङ्ग ेऽन्तकालं द्विभङ्गयुक् ॥ १३६ ॥ २६भङ्गौ २ सोच्छ्रासमान पर्याप्त्यपर्याप्ते त्रिशतं स्वदः । यावद्वाक्पूर्णतां कालोऽन्तर्मुहूर्तो द्विभेदकः ॥ १३७ ॥ ३०|भङ्गौ २ ।
एकाग्रत्रिंशतं तत्स्याद्वाक्पर्याप्तौ सदुःस्वरम् । द्विभेदं परमा चास्य स्थितिर्द्वादशवार्षिकी ।। १३८ || ३१ भङ्गौ द्वौ २ । सर्वे भङ्गाः १८ |
एवं द्वयक्षगताः भङ्गाः सन्त्यष्टादश मीलिताः । द्वयक्षवत्स्थानभङ्गादि सर्वं त्रि- चतुरक्षयोः ॥ १३६ ॥ त्रीन्द्रिये त्रिंशदेकाग्रत्रिंशतोऽस्य परा स्थितिः । दिदान्येकान्नपञ्चाशत्पण्मासाश्चतुरिन्द्रिये ॥ १४० ॥
अत्र त्रीन्द्रियस्य निरुद्योत - सोद्योतस्थानयोः ३०/३१ स्थितिस्त्र्यक्षे दिवसाः ४६ । सर्वे च भङ्गाः अष्टादश १८ | चतुरिन्द्रिये चतुःस्थानयोः ३०|३१| स्थितिश्चतुरक्षे मासाः ६ । सर्वे च भङ्गाः १८ | एवं त्रिषु विकलेन्द्रियेषु सर्वे भङ्गाः ५४ |
तिर्यक्पञ्चेन्द्रिये पाकाः षडोघा द्विंशतिर्युताः । एकषट्काष्टकैरस्त्रैस्त्रिंशच्चैकोत्तरा त्रसाः ॥ १४१ ॥
७१७
२१।२६।२८|२६|३०|३६|
अनुद्योतोदये स्थानान्येकाग्रत्रिंशतं विना । उद्योतभाजि पञ्चाक्षे सन्त्यष्टाविंशतिं विना ॥१४२॥ उद्योतोदयरहिते पञ्चाक्षे २१।२६।२८ २९ ३० ३१ । सोद्योतोद ये च २१।२६।२६।३०।३१ । अनुद्योतोदयेऽस्तीदं पञ्चाक्षे चैकविंशतम् । तिर्यग्द्वयं च पञ्चाक्षं तेजोऽगुरुलघु सम् ॥ १४३॥ निर्माणं सुभगादेययशःपर्याप्तनामसु । युग्मे चैकतरं वर्णचतुष्कं स्थूलकार्मणे || १४४ ॥ शुभ स्थिरयुगे वर्तावेकद्विक्षणस्थितिः । भङ्गाः पर्याप्तपाकेऽष्टावे कोऽन्यत्रोभये न च ॥ १४५ ॥
२१ । अत्र पर्याप्तोदये अष्टौ भङ्गाः ८ । अपर्याप्तोदये चैकः १ । कुतः ? सुभगादेययशःकीत्तिभिः सह अपर्याप्तोदयस्याभावात् ||
इदमेवानुपूर्व्यूनं क्षिप्ते षाड् विंशतं भवेत् । संस्थान - संहतिष्वेकतर औदारिकद्वये || १४६ || प्रत्येक उपघाते च गृहीतवपुषस्त्विदम् । पर्याप्तिं यावदङ्गस्य पर्याप्तस्योदयेऽत्र च ॥ १४७॥ भङ्गाः शतद्वयं साष्टाशीतमेकोऽपरत्र च । कालोऽप्यन्तमुहूर्तोऽस्य जघन्यः परमस्तथा ॥१४८॥
२६ । अत्र पर्याप्तोदये त्रिभियुग्मैः संस्थानैः संहननैश्च षड्भिः २२|२|६|६ अन्योन्यगुणैर्भङ्गाः २८८ | अपर्याप्तोदये चैकः १ । कुतः ? शुभैः सहापर्याप्तस्योदयाभावात् । उक्तं चअयशःकीर्त्त्यनादेयहुण्डासम्प्राप्तदुभंगम् । उदयं यात्यपर्याप्ते पर्याप्ते वितरैः सह ॥१४६॥
एवं सर्वे २८६ । अष्टाविंशतमेतत्स्यादपर्याप्तोनमागते । खेत्योरन्यतरे वान्यधाते पूर्णतनोरिदम् ॥ १५० ॥
१. सामान्यात् । २. विहायोगत्योः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org