________________
संस्कृत-पञ्चसंग्रह
शतानि पञ्चभङ्गानां षट्सप्ततियुतानि तु । कालोऽप्यन्तमुहूर्तोऽत्र जघन्यः परमोऽपि च ॥१५॥
२८ । अत्र पूर्वोक्ता एव २८.८ विहायोगतियुग्मध्ना भङ्गाः ५७६ । आनपर्याप्तिपर्याप्तस्यैकान्नत्रिंशतं त्वदः। सोच्छासमस्ति तत्कालं भङ्गाश्चापि तथाविधाः ॥१५२॥
२६ । भङ्गाः ५७६ । वाक्पूर्णे चॅशतं तत्स्यात्स्वरैकतरसंयुतम् । भङ्गास्तद्विगुणाः पल्यत्रयमस्य स्थितिः परा ।।१५३।।
३० । अत्र पूर्वोक्ता एव ५७६ स्वरयुगलना भङ्गाः ११५२। एवमुद्योतोदयरहिते पञ्चाक्षे सर्वे भङ्गाः २६०२ । सोद्योतोदयपन्चासौ षढेकाने तु विंशती। स्यातां पूर्वोदिते किन्तु नास्त्यपर्याप्तकं तयोः ॥५४॥
२११२६ । अत्र पुनरुक्तभङ्गाः मा२८८ । षाड्विंशतं तदेकानत्रिंशतं देहनिर्मितौ । स्वगत्यन्यतरोद्योतपरघातैर्युतं भवेत् ॥१५५।। शतानि पञ्च भङ्गानामस्य षट्सप्ततिस्तथा । उत्कृष्टोऽस्य जघन्यश्च कालोऽप्यन्तर्मुहूर्तभाक् ॥१५६॥
२६ । भङ्गाः ५७६ । पर्याप्तस्यानपर्याप्त्या सोच्छ्वासं शतं त्वदः । कालोऽप्यस्यास्ति पूर्वोक्तो भङ्गास्तावन्त एव च ॥१५७।।
३० । भङ्गाः ५७५ ।। एकत्रिंशतमेतत्स्यास्वरैकतरसंयुतम् । वाक्पूर्णे द्विगुणा भङ्गा कालोऽस्य प्राणितावधिः ॥१५॥
३१ । भङ्गाः ११५२ । कालः पल्यत्रयम् ३ । एवं सोद्योते पञ्चाक्षे सर्वे भङ्गाः २३०४ । [ निरुद्योते २६०२। एवं पञ्चाक्ष सर्वे भङ्गाः ४१०६ । सहस्राणि तु चत्वारि भङ्गाः नव शतानि तु । द्वानवत्युत्तराणि स्युः सर्वे तिर्यग्गतौ गताः ॥१५॥
४९६२ ।
एवं तिर्यग्गति-[ भङ्गाः ] समाप्ताः । नरगत्या समेताः स्युः सर्वे पाका नृणामपि । चतुर्विंशतिपाकोनाः शेषाः सन्ति दशव ते ॥१६०॥
२१।२५।२६।२८।२६।३०।३३।६।। पाकस्थानानि यानि स्युनिरुद्योतेषु पन्च तु । पञ्चेन्द्रियेषु तिर्यक्षु तानि सामान्यनृष्वपि ।।१६१।।
२११२६।२८।२६।३० । तिर्यग्द्वयप्रसङ्ग सुवाच्यं तत्रास्ति नृद्वयम् । भङ्गस्तद्विकामाणि पाइविंशतिशतानि तु ॥१६॥
२६०२। तथापि सुखबोधार्थमुच्यतेअपतीर्थकराहारे नरीदं स्वैकत्रिंशतम् । मनुजद्वय-पञ्चाक्ष-तेजोऽगुरुलघुत्रसम् ।।१६३॥ निर्माणं सुभगादेययशःपर्याप्तनामसु । युग्मेष्वेकतरं वर्णचतकं स्थूल-कार्मणे ॥१६॥ शुभस्थिरयुगे वक्रत्वेक-द्विक्षणस्थितिः। भङ्गाः पर्याप्तपाकेऽष्ट चैकोऽन्यन्नोभये नव ॥१६५॥
२१ । अत्र पर्याप्तोदयेऽप्यष्टौ ८ । अपर्याप्तोदये चैकः १ । उभये नव । इदमेवानुपूऱ्यानं क्षिप्त पातशतं भवेत् । संस्थान-संहतिष्वेकतरे औदारिकद्वये ॥१६६॥ प्रत्येके उपधाते च गृहीतवपुषस्त्विदम् । पर्याप्तिं यावदङ्गस्य पर्याप्तस्योदयेऽत्र च ॥१६७।। भङ्गाः शतद्वयं चाटाशीतं चैकोऽपरत्र च । कालोऽप्यन्तमुहर्मोऽस्य जघन्यः परमोऽपि च ॥१६८॥ अयशाकीय॑नादेयहुण्डासम्प्राप्तदुर्भगम् । उदयं यान्त्यपर्याप्त पर्याप्ते वितरैः सह ॥१६॥
२६ । इत्यपर्याप्तोदये भङ्गः १ । पर्याप्तोदये २८८ । सर्वे २८९ । अष्टाविंशतमेतत्स्यादपर्याप्तोनमागते । खेत्योरन्यतरेऽथान्यघाते पूर्णतनोरिदम् ॥१७॥ शतानि पञ्च भङ्गानां षट्सप्ततियुतानि तु । कालोऽप्यन्तमुहूर्तोऽत्र जघन्यः परमोऽपि च ॥१७॥
२८। भङ्गाः ५७६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org