SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ ७१६ संस्कृत-पञ्चसंग्रह यशोबादरपर्याप्तत्रियुग्मैकतरत्रयम् । वक्रतौ वर्तमानस्यारत्येकद्वित्रिक्षणस्थितिः ॥११५॥ सूचमसाधारणापूर्णैः सहोदेति न यद्यशः । यशःपाकेऽस्ति तेनैको भङ्गोऽन्यत्र चतुष्टयम् ॥११६॥ २१ । अत्र भङ्गाः अयशाकीयुदये बादरपर्याप्तयुग्माभ्यां चत्वारः ४ । यशाकीर्युदये चैकः १ । कुतः ? सूचमापर्याप्ताभ्यां सह यशाकीर्तेरुदयाभावात्, यशाकीर्त्या च सह सूचमापर्यातयोरुदयाभावाद् वा । सर्वे भङ्गाः ५। चातुर्विशतमस्तीदं स्वानुपूर्योनमागते । हुण्डे प्रत्येकयुग्मैकतरे चौदारिकेऽपि च ॥११७॥ उपघाते गृहीताङ्गस्याङ्गपर्याप्तिपूर्णताम् । यावद्भङ्गा नवास्यान्तर्मुहूर्तश्च द्विधा स्थितिः ॥११॥ २४ । अत्राप्ययशःकीर्युदये बादरपर्याप्तप्रत्येकयुग्मैरष्टौ भङ्गाः ८ । यशःकीर्युदये चैकः १ । कुतः ? यशःका सह सूक्ष्मापर्याप्तसाधारणानामुदयाभावात् । सर्वे नव १ । सान्यघातमपूर्णोनं स्यादेतत्पाञ्चविंशतम् । तत्काल पञ्चधा यावदानपर्याप्तिनिष्ठितम् ॥११॥ २५ । अत्र भङ्गाः अयशाकीयुदये चस्वारः ४ । कुतः ? अपर्याप्तोदयस्याभावात् । यशाकीयुदये चैकः । सर्वे ५। षोतिशतं तदानाप्तौ सोच्छासं पञ्चभङ्गयुक । स्यादस्याब्दसहस्राणि स्थितिविशतिः परा ॥१२०॥ २६ । भङ्गाः ५। स्थितिः २२००० । एवं सर्वे भङ्गाः २४ । एकाक्षे पञ्चधोक्तं यत्स्थानं तत्पाञ्चविंशतम् । विनैकाक्षे चतुर्धा स्यादातपोद्योतवेदने ॥१२१॥ २१०२४२६।२७ । एकाक्षे सातपोद्योते चतुरेकानविंशती । पूर्वोक्त किन्तु पर्याप्तसूचमसाधारणोज्झिते ॥१२२॥ २१२४ । अनयोः सूचमपर्याप्तोना एकविंशतिः २१ । साधारणोना चतुर्विशतिः २४ । कुतः? आतपोद्योतोदयभाविना सूचमापर्याप्तसाधारणशरीराणामुदयाभावाद् यशोयुग्मैकतरम् । भङ्गौ चान द्वौ द्वौ पुनरुक्तौ २।२। पर्याप्तस्याङ्गपर्याप्त्या स्यात् पाइविंशतं स्विदम् । आतपोद्योतयोरेकतरे हिलेऽन्यघातयुक ॥१२३॥ २६ । अस्योत्कृष्टजघन्या स्थितिरन्तर्मुहूर्तगा भङ्गाः ४ । स्यात्तदेवानपर्याप्तौ सोच्छासं साप्तविंशतम् । तचैतच्चतुर्भङ्गकालोऽस्य प्राणितावधिः ॥२४॥ २७ । अत्रोत्कृष्टा द्वाविंशतिवर्षसहस्त्राणि स्थितिः २२००० । भङ्गाः ४ । एवमेकेन्द्रियस्य सर्वे भङ्गाः ३२। स्थानान्येकषडष्टाना नवामा चैकविंशतिः । त्रिंशत्सैकाधिका पाके सामान्यादिकलेषु षट् ॥१२५॥ २०२६।२८।२६॥३०॥३१ एतान्येव निरुद्योते सन्स्येकत्रिंशतं विना । सोद्योते तु विनाऽष्टाविंशतिं तानि सन्ति हि ॥१२६॥ उद्योतोदयरहिते विकले २११२६।२८।२६१३०३१ । उद्योतोदययुक्त विकले २११२६।२६। ३०३१ । अनुद्योतोदयस्यादो द्वीन्द्रियस्यैकविंशतम् । द्वय तिर्यग्द्वयं वर्णचतुष्कं त्रसकामणे ॥१२७॥ शुभस्थिरयुगे तेजोऽनादेयागुरुलध्वपि । स्थूलमेकतरे च दुयशःपर्याप्तयुग्मयोः ॥१२॥ निर्माणं दुर्भगं वक्र वेकद्विक्षणस्थितिः । यशाकीर्युदये भङ्गोऽत्रको द्वापरत्र तु ॥१२६॥ २१ । अत्र यश:कीयुदये एको भङ्ग । कुतः ? अपर्याप्तोदयेन सह यशःकीर्तेरुदयाभावात् । अयशाकीयुदये द्वौ भनौ । कुतः१ पर्याप्तापर्याप्ताभ्यां सहायशःकीयुदयसम्भवात् । भङ्गाः ३ । प्रत्येकौदार्ययुग्मोपघातासम्प्राप्तहुण्डयुक् । इदं गृहीतकायाद्यक्षणे षाविशतं भवेत् ॥१३०॥ अपनीतानुपूर्वी यावत्कायस्य पूर्णताम् । भङ्गास्त्रयोऽस्य कालोऽन्तर्मुहर्ताऽस्ति द्विधा स्थिती ॥१३॥ २६ । भङ्गाः ३। १. अागते सति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy