SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाख्यः पञ्चमः संग्रहः अत्र देवगत्या सह उद्योतो न बध्यते, देवगतौ तस्योदयाभावात्, तिर्यग्गतिं मुक्त्वाऽन्यगत्या सह तस्य बन्धविरोधाश्च । देवानां देहदीप्तिस्तर्हि कुतः ? वर्णनामकर्मोदयात् । अत्र च श्रीणि युगानि २।२।२ । भङ्गाः । एकत्रिंशच्च निस्तीर्थकराऽऽहारद्वया भवेत् । अष्टाविंशतिराद्यतां बनीतः सप्तमाष्टमौ ॥१७॥ अत्र भङ्गः पुनरुक्तः । अष्टाविंशतिरनान्येकाननिशदिद्वतीयका । हीना तीर्थकरेणतां प्रबध्नन्ति षडादिमाः ॥१८॥ कुतः १ एतदुपरिजानामप्रमत्तादीनामस्थिराशुभायशसां बन्धाभावात् । भङ्गाः । एवं देवेषु भङ्गाः १६ । यशोऽत्रैकमपूर्वाद्य त्रये भङ्गास्तु नामनि । चतुर्दश सहस्राणि पञ्चपञ्चाशतं विना ॥६॥ १३६४५। पाकेऽत्रैकचतुः पञ्च षट् सप्ताष्टनवाधिकाः । दशैकादशयुक्तापि विंशतिनव चाष्ट च ॥१०॥ नाम्नः पाके २१।२४।२५।२६।२७:२८।२६।३०।३१।३।। एकपन्चकसप्ताष्टनवयुक्ताऽत्र विंशतिः । पाकस्थानानि पञ्चैव रान्ति श्वभ्रगताविति ॥१०॥ २११२५।२७।२८।२६। अत्रैकविंशतं श्वभ्रयुग्मं तैजसकार्मणे । निर्मिद्वर्णचतुष्कं च पर्याप्तागुरुलध्वपि ॥१०२॥ अनादेयायशःस्थूलं पञ्चाक्षं दुर्भगं त्रसम् । नित्योदयचतुष्कं च स्थिरास्थिरशुभाशुभैः ॥१०३॥ विग्रहर्तिगतस्य स्यान्नारकस्योदयेऽस्य तु । जघन्यसमयं द्वौ च समयो परमोऽपि च ॥१०॥ २,११ भङ्गः १ । अपश्वभ्रानुपूर्वीकमस्तीदं पाञ्चविंशतम् । युक्तं प्रत्येकहुण्डोपघातवैक्रियिकद्वयः ॥१०५॥ अहोऽस्त्यात्तशरीराधक्षणादारभ्य पूर्णताम् । यावच्छरीरपर्याप्ते कालोऽत्रान्तर्मुहूर्तभाक् ॥१०६॥ २५ । मङ्गः । कुतोऽत्र न संहननोदयः ? नरकगत्या देवगत्या च सह संहननस्य बन्धाभावात् । पर्याप्ताङ्गऽन्यघातासद्गतियुक साप्तविंशतम् । तत्कालेऽस्य न पर्याप्तिनिष्पत्तिर्यावदस्त्यदः ॥१०॥ २७भङ्गः । अष्टाविंशत्तमानाप्तौ भाषापर्याप्तिपूर्णताम् । यावरसोच्छासमस्तीदं कालोऽस्यान्तर्मुहूर्तभाक् ॥१८॥ २८ । भङ्गः ।। एकान्नत्रिंशतं तत्स्याद् वाक्पर्याप्तौ सदुस्वरम् । कालस्तु जीवितान्तोऽस्यकैको भङ्गोऽपि पन्चसु ॥१०॥ २६ । भङ्गः । एवं सर्वे ५। अत्र जघन्या दशवर्षसहस्राणि, उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि उभेऽप्येतेऽन्तर्मुहाने । एवं नरकगतिः समाप्ता। एकाग्रा विंशतिः सा च चतुरादिभिरन्विताः । एकाग्रत्रिशतं यावत्तिर्यक्त्वे ते नवोदयाः ।।११०॥ २१।२४।२५।२६।२७।२८।२६।३०॥३१॥ पृथिवीकायिके स्थूले पूर्णाङ्गेऽस्त्यातपोदयः । तिर्यक्षुद्योतपाकोऽस्ति मुक्त्वा तेजोऽनिलाङ्गिनौ ॥११॥ __ अत्र तेजोवातकायिकौ मुक्त्वाऽन्येषु बादरपर्याप्तपृथिव्यम्बुवनम्पतिषु पर्याप्तद्वित्रिचतुरिन्द्रियपञ्चेन्द्रियेषु च तिर्यशूद्योतोदयो भवतीत्यर्थः । सामान्यैकेन्द्रियस्याद्य स्थानं पन्चकमिष्यते । निःसाप्तविंशतं तत्स्यानिरुद्योतातपोदये ॥ ११२॥ अत्र सामान्यकेन्द्रियाणामुदयस्थानानि पञ्च २११२४।२५।२६।२७। तेषामेवातपोद्योतयोरनुदयेनामूनि चत्वारि २१।२४।२५।२६। आतपोद्योतपाकोनैकेन्द्रियस्यैकविंशतम् । इदं तिर्यग्द्वयं तेजोऽगुरुलध्वथ कार्मणम् ॥११३।। वर्णगन्धरसस्पर्शाः निर्माणं च शुभाशुभम् । स्थिरास्थिरमनादेयं स्थावरैकाक्षदुर्भगम् ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy