________________
जीवसमासो गइ इंदिएसु काए जोगे वेदे कसाय णाणे य ।
संजम दंसण लेस्सा भविया सम्मत्त सण्णि आहारे ॥४६॥ तद्यथा-मृगयिता मृग्यमाणं मार्गणं मार्गणोपायमिति । तत्र मृगयिता नाम पुरुष-भव्यवरपुण्डरीकस्तत्त्वपदार्थश्रद्धालुः। मृग्यमाणं चतुदश जीव-गुणस्थानानि । मार्गणं नाम मृग इति विषयभूतानि गत्यादि-मृग्यस्थानानि । मार्गणोपायं नाभ पाठादीनि । अथवा परिकर्मादीनि । अथवा शिष्याचार्यसम्बन्धानि । अथवा- काले विणए उवधाणे बहुमाणे तहेव णिण्हवणे।
अत्थं वंजण तदुभय णाणचारो दु अट्ठविहो ॥३॥ इदि एवमादि मार्गणोपायम् । एवं लोकेऽपि दृष्टमेतत् । मार्गणविधानं चतुर्विधं-नष्टद्रव्येव एष पुनर्मार्गणाविधिः।
तत्थ इमाणि चउदसठाणाणि णादत्वाणि भवंति । गम्यतीति गतिः। अथवा भवाद्भवसंक्रान्तिर्गतिः । असंक्रान्तिः सिद्धगतिः । प्रत्यक्षविरतानीन्द्रियाणि, अक्षमक्षं प्रतिवर्तत इति प्रत्यक्षम् । चीयतीति कायः । अथवा आत्मप्रवृत्त्युपचितपुद्गलपिण्डः कायः । युञ्जतीति योगः । अथवा आत्मप्रदेशपरिस्पन्दनलक्षणो एनः [ योगः] । वेद्यत इति वेदः। अथवा मैथुनसम्मोहोत्पादो वेदः। सुख-दुःख बहुसष्यकर्मक्षेत्रं कृषन्तीति कषायाः! भूतार्थप्रकाशकं ज्ञानं, तत्त्वार्थोपलम्भकं वा । संयमनं संयमः । अथवा व्रत-समिति-कषाय-दण्डेन्द्रियाणां धारण-पालन-निग्रह-त्याग-जयो संयमः। दृश्यतेऽनेनेति दर्शनम् । आलोकनवृत्तिर्वा दर्शनम् । लिम्पत्तीति लेश्या । अथवा कषायानुरञ्जितकाय-वाङ्मनोयोगप्रवृत्तिलेश्या । निर्वाणपुरष्कृतो भव्यः । तद्विपरीतोऽभव्यः । तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् । अथवा प्रशमसंवेगानुकम्पाऽऽस्तिक्यादिभिर्व्यक्तलक्षणं सम्यक्त्वम् । शिक्षाक्रियोपदेशालापग्राही संज्ञी । तद्विपरीतोऽसंज्ञी । आहियत इत्याहारः । अथवा शरीरप्रायोग्यपुद्गलपिण्डग्रहणमाहारः । तद्विपरोतोऽनाहारः।
णिरयगई तिरियगई मणुयगई तह य जाण देवगई। इंदियसण्णा एइंदियादि पंचिदिया जाव ॥४७॥ पुढवी आऊ य तहा तेऊ मरु तरु तसा य णायव्वा । काया जिणेहि दिट्ठा संसारत्था य छब्भेया ॥४॥ सच्चासचं च तहा सच्च य मोसो य असच्चभोसो य । मण-वयणस्स हु एवं पच्छा उण सुणहु काओगो ॥४६॥ ओरालिय तम्मिस्सं वेउब्विय पुण वि होइ तम्मिस्सं । आहारं पुण मिस्सं कम्मड्गसमण्णियं जोयं ॥५०॥ पुरिस इत्थी णउंसय बेदा तिय होंति णादव्वा । कोहादी य कसाया लोभंता जाण ते चउरो ॥५१॥ मदि-अण्णाणं च तहा सुद-अण्णाणं तहेव णादव्वं । होइ विहंगा णाणं अण्णाणतिगं च जाणेदे ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org