________________
संस्कृतटीकाकारस्य प्रशस्तिः
श्रीमूलसंधेऽजनि नन्दिसंघो वरो बलात्कारगणप्रसिद्धः । श्रीकुन्दकुन्दो वरसूरिवर्यो बभौ बुधो भारतिगच्छसारे ॥१॥ तदन्वये देव-मुनीन्द्र वन्द्यः श्रीपद्मनन्दी जिनधर्मनन्दी । ततो हि जातो दिविजेन्द्रकीर्तिर्विद्या-[भि-] नन्दी वरधर्ममूर्तिः ॥२॥ तदीयपट्टे नृपमाननीये मल्ल्यादिभूषो मुनिवन्दनीयः । . ततो हि जातो वरधर्मधर्ता लक्ष्म्यादिचन्द्रो बहुशिष्यकर्ता ॥३॥
पञ्चाचाररतो नित्यं सूरिसद्गुणधारकः ।
लक्ष्मीचन्द्रगुरुस्वामी भट्टारकशिरोमणिः ॥४॥ दुर्वारदुर्वादिकपर्वतानां वज्रायमानो वरवीरचन्द्रः । तदन्वये सूरिवरप्रधानो ज्ञानादिभूपो गणिगच्छगजः ॥५॥ विद्यविद्याधर चक्रवर्ती भट्टारको भूतलयातकीर्तिः । ज्ञानादिभूषो वरधर्ममूर्तिस्तदीयवाक्यात् क्षतसारवृत्तिः ॥६॥
भट्टारको भुवि ख्यातो जीयाच्छीज्ञानभूषणः ।
तस्य पट्टोदये भानुः प्रभावन्द्रो वचोनिधिः ॥७॥ विशदगुणगरिष्ठो ज्ञानभूपो गणीन्द्रस्तदनुं पदविधाता धर्मधर्ता सुभर्ता। कुवलयसुखकर्ता मोहमिथ्यान्धहर्ता स जयतु यतिनाथः श्रीप्रभाचन्द्रचन्द्रः ॥८॥
दीक्षाशिक्षापदं दत्तं लक्ष्मीवीरेन्दुसूरिणा। येन मे ज्ञानभूपेण तस्मै श्रीगुरुवे नमः ।।६॥ आगगेन विरुद्धं यद् व्याकरणेन दूषितम् ।
शुद्धीकृतं च सत्सर्व गुरुभिर्ज्ञानभूषणैः ।।१०।। तथापि
अत्र हीनाधिकं किञ्चिद्रचितं मतिविभ्रमात् । शोधयन्तु महाभव्याः कृपां कृत्वा ममोपरि ॥११॥ हंसाख्यवर्णिनाथेन ग्रन्थोऽयमुपदेशितः । तस्य प्रसादतो वृत्तिः कृता सुमतिकीतिना ।।१२।। श्रीमद्विक्रमभूपते परिमिते वर्षे शते पोडशे विंशत्यग्रगते (१६२०) सिते शुभतरे भाद्र दशम्यां तिथौ । ईलावे वृषभालये वृपकरे सुश्रावके धार्मिके
सूरिश्रीसुमतीशकीर्तिविहिता टीका सदा नन्दतु ॥१३॥ इति श्रीपञ्चस ग्रहापरनामलघुगोम्मटसारसिद्धान्तग्रन्थटाकायां कर्मकाण्डे सप्ततिकानाम सप्तमोऽ. धिकारः।
इतिश्री लघुगोम्मटसारटीका समाप्ता ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org