SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २१० पञ्चसंग्रह कोदय कहते हैं। जैसे मनुष्यके मनुष्यगति नामकर्म अपने स्वरूपसे स्वतः स्वभाव उदयमें आकर फल देता है । जो कर्म स्वतः स्वभावसे उदयमें न आकर पर-प्रकृतिमुखसे उदयमें आकर विपाकको प्राप्त होते हैं, उसे अविपाकोदय कहते हैं। जैसे मनुष्यके शेष तीन गतियोंका स्तिबुकसंक्रमण होकर मनुष्यगतिके उदयकालमें मनुष्यगतिके रूपसे परिणत होकर विपाकको प्राप्त होगा। इसी प्रकार शेष प्रकृतियोंके सविपाकोदय और अविपाकोदयको जानना चाहिए । अब भाष्यगाथाकार प्रकृति आदि चारों बन्धोका स्वरूप कहते हैं 'पयडी एत्थ सहावो तस्स अणासो ठिदी होज । तस्स य रसोऽणुभाओ एत्तियमेत्तो पदेसो दु॥५१४॥ 'एक्कम्मि महुरपयडी तस्स अणासो ठिदो होज । तस्स य रसोऽणुभाओ कम्माणं एवमेवो त्ति ॥५१॥ अथ प्रकृति-स्थित्यनुभाग-प्रदेशबन्धलक्षणं गाथाद्वयेनाऽऽह-[पयडी एत्थ सहावो' इत्यादि । ] अन्न कर्मकाण्डे स्वभावः परिणामः शीलं प्रकृतिज्ञेया। तस्य स्वभावस्याविनाशोऽच्युतिः स्थितिभवति । तस्याः स्थितेः अनुभागरूपो रसो भवति । दु पुनः एतावन्मात्रः प्रदेशः कर्मप्रकृतीनामंशावधारणं प्रदेशबन्धः स्यात् । उक्तञ्च प्रकृतिः परिणामः स्यास्थितिः कालावधारणम् । अनुभागो रसो ज्ञेयः प्रदेशः प्रचयात्मकः ॥४६॥ स्वभावः प्रकृति या स्वभावादच्युतिः स्थितिः । अनुभागो रसस्तासां प्रदेशोंऽशावधारणम् ॥५०॥ इति तद्दष्टान्तमाह-[ 'एक्कम्हि महुरपयडी' इत्यादि । ] यथा एकस्मिन् वस्तुनि वृत्तादौ वा मधुरादिप्रकृतिमिष्टता स्वभावः । तस्या मधुररसादिप्रकृतेरविनाशोऽप्रच्युतिः सा स्थितिः स्यात् । तस्याः स्थितेः रसरूपोऽनुभागोऽनुभवो विपाकः, तथा कर्मणामेवेति । यथा निम्बस्य कटुकता भवति, गुडस्य प्रकृतिमधुरता भवति, तथा ज्ञानावरणस्य प्रकृतिः अर्थापरिज्ञानम्, वेद्यस्य सुख-दुःखानुभवनमित्यादिप्रकृतिः । अष्टकर्मणामष्टप्रकृतिभ्योऽप्रच्युतिः स्थितिः। यथा अजा-गो-महिषीक्षीरस्य निजमाधुर्यस्वभावादच्युतिः, तथा ज्ञानावरणादिकर्मणामापरिज्ञानादिस्वरूपादप्रस्खलितिः स्थितिरुच्यते २। स्थितौ सत्यां प्रकृतीनां तीव्रमन्द-मध्यमरूपेण रसविशेषः अनुभवोऽनुभाग उच्यते । अजा-गो-महिष्यादिदुग्धानां तीव्र-मन्द-मध्यमत्वेन रसविशेषः कमपुद्गलानां स्वगतसामथ्यविशेषः ३। कर्मस्वपरिगतपुद्गलस्कन्धानां परिमाणपरिच्छेदेन इयत्तावधारणं प्रदेश उच्यते ४ । तथा चोक्तम्-- प्रकृतिस्तिक्तता निम्बे स्थितिरच्यवनं पुनः । रसस्तस्यानुभागः स्यादित्येवं कर्मणामपि ॥५१॥ इति जघन्यो नाधरो यस्मादजघन्योऽस्ति सोऽधरः । उत्कृष्टो नोत्तरो यस्मादनुत्कृष्टोऽस्ति सोत्तरः ॥५२॥ . उपशमश्रेण्याऽऽरोहकः सूचमसाम्परायः उच्चैर्गोत्रानुभागं बध्वा उपशान्तकषायो जातः । पुनरवरोहणे सूचमसाम्परायो भूत्वा तदनुभागमनुस्कृष्टं बध्नाति, तदाऽस्य सादित्वम् । अथवा अबन्धपतितस्य कर्मणः 1, सं० पञ्चसं० ४,३६६ । 2.४,३६७ । १, सं० पश्चसं० ४, ३६६ । २. सं० पञ्चसं० ४, ३६७ । ३. सं० पञ्चसं० ४, ३५० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy