SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ शतक २४५ त्रयस्त्रिंशन्जिनैर्लक्षाः सत्रिभागा निवेदिताः । __ आबाधा जीवितव्यस्य पूर्वकोटीस्थितेः स्फुटम् ॥३१॥ पूर्वाणां त्रयस्त्रिंशल्लक्षा इति शेषः ३३३ । आयुषो जघन्याऽऽबाधाकालः अन्तर्मुहूर्तः । पक्षान्तरेणासंक्षेपाता वा भवति । न विद्यतेऽस्मादन्यः संक्षेपः असंक्षेपः। स चासौ अद्धा च असंक्षेपाद्धा, आवल्यसंख्येयभागमात्रत्वात् । आयुषः कर्मणः एवमेव भवति । न च स्थिति-त्रिभागेन । तर्हि असंख्यातवर्षायुष्काणां त्रिभागे उत्कृष्टा कथं नोक्ता? तन, देवानां नारकाणां च स्वस्थितौ षण्मासेषु, भोगभूमिजानां नवमासेषु चावशिष्टेषु त्रिभागेनायुबन्धासम्भवात् । आबाधालक्षणं गोमट्टसारे प्रोक्तमस्ति-- कन्मसरूवेणागयदव्वं ण य एदि उदयरूवेण । रूवेणुदीरणस्स य आबाहा जाव ताव हवें ॥३२।। कार्मणशरीरनामकर्मोदयापादितजीवप्रदेशपरिस्पन्दलक्षणयोगहेतुना कार्मणवर्गणायातपुद्गलस्कन्धाः मूलोत्तरप्रकृतिरूपेणाऽऽत्मप्रदेशेषु अन्योन्यप्रवेशानलक्षणबन्धरूपेणाप्रस्थिताः फलदानपरिणतिलक्षणोदयरूपेणापक्वपाचनलक्षणोदीरणारूपेण वा यावन्नाऽऽयान्ति तावान् काल: 'भाबाधा' इत्युच्यते । कर्मस्वरूपेण परिणतकार्मणद्रव्यं यावद्दयरूपेणोदीरणारूपेण वा न एति, न परिणमति तावान् काल: 'भाबाधा' कथ्यते । तथा चोक्तम्-- यावत्कालमुदीर्यन्ते न कर्मरमाणवः । उदीरणां विनाऽऽबाधा तावत्कालोऽभिधीयते ॥३३॥३६३-३६४॥ बँधा हुआ कर्म जितने कालतक फल देना प्रारम्भ नहीं करता, उतने कालको अबाधाकाल कहते हैं। कौन कर्म कितने समय तक फल नहीं देता, इसका एक निश्चित नियम है। आगे उसीका निरूपण करते हैं एक कोड़ाकोड़ी सागरोपम स्थितिबन्धकी आबाधा सौ वर्ष प्रमाण होती है। इस नियम के अनुसार सातों मूल कर्मोंकी, तथा उनको उत्तरप्रकृतियोंकी उत्कृष्ट आबाधा त्रैराशिकसे जान लेना चाहिए। आयुकर्मकी उत्कृष्ट आबाधा पूर्वकोटी वर्षका त्रिभाग है। सर्व कर्मोकी जघन्य आबाधा अन्तर्मुहूर्त काल-प्रमाण है ॥३६३-३६४॥ विशेषार्थ-सातों कर्मों की उत्कृष्ट आवाधा इस प्रकार जानना चाहिए-ज्ञानावरण, दर्शनावरण, वेदनीय और अन्तरायकर्मकी ३००० वर्ष, दर्शनमोहकी ७००० वर्ष, चारित्रमोहकी ४००० वर्ष, नाम और गोत्रकर्मकी २००० वर्ष उत्कृष्ट आबाधा होती है। आवाधूणहिदी कम्मणिसेओ होइ सत्तकम्माणं । ठिदिमेव णिया सव्वा कम्मणिसेओ य आउस्स ॥३६॥ अथ निषेकलक्षणमाह-[ 'भायाधुणियकम्मट्ठिी' इत्यादि । ] आयुर्वर्जितसप्तमूलप्रकृतीनां ज्ञानावरणादीनां आबाधोनितकर्मस्थितिः कनिषेचनं क्षरणं निषेको भवति । कर्मनिषेचनं कर्मोदय इत्यर्थः । आयुपः कर्मणः निजा स्थितिः सर्वा कर्मनिषेकरूपा भवति । आयुषः स्वस्थितिः सर्वैव निषेको भवति । तथा चोक्तम् आबाधोनाऽस्ति सप्तानां स्थितिः कर्मनिषेचनम् । कर्मणामायुषोऽवाचि स्थितिरेव निजा पुनः ॥३४।। इति 1. सं० पञ्चसं० ४, २०८। १. सं० पञ्चसं० ४, २०५। २. गो० क० गा० १५५ । ३. सं० पञ्चसं० ४, २०७ । ४. सं० पञ्चसं० ४, २०७। १. गो. क. गो. गा० १६०, परं तनोत्तरार्धे पाठभेदोऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy