________________
तीर्थंकर
[ ३१३ हस्तिनापुरे सुदर्शनमहाराज - सुमित्रादेव्योर्जाताय सुवर्णवर्णाय कुरुवंशाय त्रिंशद्धनुरुत्सेधाय मत्स्यलांछनाय चतुरशीतिसहस्र -वर्षायुष्काय माहेन्द्र-विजयायक्षयक्षीसमेताय सम्मेदगिरौ नाटककूटे कर्मक्षयंगताय श्रीमदरतीर्थेश्वराय नमस्कारं कुर्वे ।
___ मिथिलापत्तने कुंभमहाराजप्रभावतीदेव्योर्जाताय हाटकवर्णाय इक्ष्वाकुवंशाय पंचविंशतिधनुरुत्सेधाय पंचपंचाशतसहस्र - वर्षायुष्काय कुंभलांछनाय कुबेरअपराजित-यक्षयक्षीसमेताय श्रीसम्मेदे संबलकूटे कर्मक्षयंगताय श्रीमल्लितीर्थेश्वराय नमस्कारं कुर्वे ।
राजगृहपत्तने सुमित्रमहाराजपद्मावतीदेव्योर्जाताय इन्द्रनीलरत्नवर्णाय विंशतिचापोन्नताय त्रिंशत् सहस्रवर्षायुष्काय-कच्छपलांछनाय वरुणबहुरूपिणी - यक्षयक्षीसमेताय हरिवंशाय सम्मेदगिरौ निर्जरकूटे कर्मक्षयंगताय श्रीमुनिसुव्रततीर्थेश्वराय नमस्कारं कुर्वे ।।
मिथिलाख्यपत्तने विजयनृप-वर्मिलामहादेव्योर्जाताय कनकवर्णाय पंचदशधनुरुत्सेधाय दशसहस्रवर्षायुष्काय कैरवलांछनाय भृकुटि-चामुण्डीयक्षयक्षीसमेताय इक्ष्वाकुवंशाय सम्मेदगिरौ मित्रधरकूटे कर्मक्षयंगताय श्रीनमितीर्थेश्वराय नमस्कारं कुर्वे ।
शौरीपुराधीश्वरसमुद्रविजयमहाराजमहादेवीशिवदेव्यो र्जाताय नीलनीरदनिभवर्णाय दशचापोन्नताय सहस्रवर्षायुष्काय शंख लांछनाय हरिवंशतिलकाय सर्वाह्व - कूष्माण्डिनी - यक्षयक्षीसमेताय ऊर्जयन्तशिखरे परिनिर्वृताय श्रीनेमितीर्थेश्वराय नमस्कारं कुवे ।
वाराणसीनगरे विश्वसेनमहाराज - ब्रह्मामहादेव्योर्जाताय हरितवर्णाय नवकरोन्नताय शतवर्षायुष्काय सर्पलांछनाय धरणेन्द्रपद्मावतीयक्षयक्षी-समेताय उग्रवंशाय सम्मेदगिरौ सुवर्णभद्रकूटे परिनिर्वृताय श्रीपार्वतीर्थेश्वराय नमस्कारं कुर्वे ।
श्रीकुण्डपुरे सिद्धार्थनरेशप्रियकारिणीदेव्योर्जाताय हेमवर्णाय सप्तहस्तोन्नताय द्वासप्ततिवर्षायुष्काय केसरिलांछनाय मातंग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org