SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (णिप्रत्ययान्त) मतान्तरे लोहितादिषु लोहितशब्दादेव क्यडष् प्रत्ययो लिह्यादिभ्यासतु क्यङ् एवेत तेषामात्मनेपद घटितान्येव रूपाणि भवन्ति ।। ॥ इति क्यष्प्रत्ययान्ता नामधातवः ॥ ॥ अथ णिप्रत्ययान्तप्रकरणम् ॥ निरूपिता: क्यङ्क्षप्रत्ययान्ता नामधातवः । अथ णिङ्प्रत्ययान्ता नामधातवो निरूपणीयाः । ननु कीदृशानाम्नः कस्मिन्नर्थे णिङ् प्रत्ययो वा भवतीति चेल्लक्ष्यतामिदं लक्षणचतुष्टयम् ।। अङ्गान्निरसने णिङ् || ३ |४|३८|| अङ्गवाचिनः शब्दात् कर्मणो निरसनेऽर्थे णिङ् प्रत्ययो वा भवति । हस्तौ निरस्यति हस्तयते । पादयते । ग्रीवयते । निरसन इति किम् ? हस्तं करोति हस्तयति । कर्मण इति किम् ? हस्तेन निरस्यति । ङकार आत्मनेपदार्थः ।। २८ ।। पुच्छादुत्परिव्यसने || ३|४|३९॥ पुच्छशब्दात् कर्मण उदसने पर्यसने व्यसने असने चार्थे णिङ् प्रत्ययो वा भवति । पुच्छमुदस्यति उत्पुच्छयते । पर्यस्यते परिपुच्छयते । व्यस्यति विपुच्छयते अस्यति पुच्छयते । । ३९ भाण्डात् समाचितौ ॥३॥४॥४०॥ भाण्डशब्दात् कर्मण: समाचयनेऽर्थे णिङ् प्रत्ययो वा भवति । समाचयनं च समापरिणा च द्योत्यते । भाण्डानि समाचिनोति संभाण्डयते परिभाण्डयते ।।४० १ हस्त - यते, येते, यन्ते, यसे, येथे, यध्वे ये, यावहे, यामहे । २ हस्तये - त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, महि । 453 ३ हस्त-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, याम है। ४ अहस्त-यत, येताम्, यन्त, यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि ।। Jain Education International ५ अजहस्त्- अत, एताम्, अन्त, अथा: एथाम्, अध्वम्, ए, आवहि, आहमि । ६ हस्तया - ञ्चक्रे, इ० ।। म्बभूव इ० ।। पास, इ० ॥ ७ हस्तयिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ हस्तयिता - "रौ, र:, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ हस्तयिष्यते, ष्येते, ष्यन्ते ष्यसे, ष्येथे, ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अहस्तयि-ष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, ष्यावहि ष्यामहि ।। क्रियारत्नसमुच्चयकृतामभिप्रायेण तु ङे परे अन्यस्य ॥ ४ ॥ १ ॥ ८ ।। इति अहतस्त्-इत्यपि भवति । अस्माभिस्तु अस्मिन् सूत्रे तादृशोदाहणादर्शनादेकमेवादर्शि । एवमन्यत्र ।। पादौ निरस्यतीति पादयते । २ पादि - धातोरूपाणि ।। पाद-यंते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे । पादये- त, याताम्, रन्, थाः, याथाम् ध्वम्, य, वहि, महि । ३ पाद-यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम्, यै, यावहै, यामहै ।। अपाद-यत, येताम् यन्त, यथा, येथाम्, यध्वम्, ये, यावहि, यामहि ।। चीवरात् परिधानार्जने ||३|४|४१|| ४ ५ चीवरशब्दात् कर्मणः परिधानेऽर्जने चार्थे णिङ् प्रत्ययो वा भवति । चीवरं परिधत्ते परिचीवरयते । समाच्छादनमपि परिधानम् । चीवरं समाच्छादयति संचीवरयते । चीवरमर्जयति चीवरयते । संमार्जनेऽप्यन्ये । चीवरं संमार्जयति संचीवरयते ।।४१ हस्तौ निरस्यतीति हस्तयते । १ हस्ति - धातोरूपाणि ॥ १ २ अपपाद्- अत, एताम्, अन्त, अथाः एथाम् अध्वम्, ए, आवहि, आहमि । ६ पादयाञ्चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ॥ ७ पादयिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, ध्वम्, य, वहि, महि ।। ८ पादयिता- ", रौ, र:, से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ पादयिष्यते, ष्येते, ष्यन्ते ष्यसे, येथे ष्यध्वे ष्ये, ष्यावहे, ष्यामहे ।। १० अपादयिष्यत, ष्येताम्, ष्यन्त, ष्यथाः, ष्येथाम्, ष्यध्वम्, ष्ये, प्यावहि, ष्यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy