________________
प्रकृतिग्रहणे यङ्लुबन्तस्यापि ग्रहणम्
"
यस्माच्छब्दाद्य: प्रत्ययो विधीयते सा तस्य प्रकृतिः सा चात्र सामर्थ्याद्धातुरूपैव ग्राह्या यङ्लुबन्तत्वस्यान्यत्रासम्भवात् एवमुत्तरन्यायेऽपि वाच्यम् । यस्य धातोः केवलस्य यत् कार्यमुक्तं तत् तस्य यङ्लुबन्तस्यापि स्यात्, तेन प्राणिदत्ते इत्यत्र केवले इव यङ्लुबन्तेऽपि दागि परे "नेमादा० " ( २.३.७९) इति नेर्नो णः सिद्धः यथा-प्रणिदादेति । सत्ताकरं चास्य " एकस्वरादनुस्वारेतः" (४,४,४५ ) इति बृहत्सूत्रवचनम्। तथाहि । अनुस्वारेतस्तावत् कृगादिधातवः ते च सर्वेऽप्येकस्वरा एव भवन्ति, न त्वनेकस्वर: कश्चिदप्यनुस्वारेदस्तीत्ययः “ अनुस्वारेतः" इत्येतावताऽपि सूत्रेण सरति । अथेत्थं ब्रूषे, अस्ति हनादेशो वधधातुरदन्तत्वादनेकस्वरः स्थानिवद्भावाच्चानुस्वारेच्च, तत्प्रयोगेषु चावधीदित्यादिषु इनिषेधो न दृश्यते; 'अनुस्वारेतः" इत्येतावदेव च सूत्रं यदि क्रियते यदा अवधीत् इत्यादिषु इनिषेध: प्रसज्यते इति चेर्हि तस्येनिषेधनिवृत्त्यर्थम् " अवधानुस्वारेतः" इति सूत्रमस्तु, “एकस्वरानुस्वारेतः" (४,४, ५६ ) इत्येतावत्तु किमर्थम् ? एवं सूत्रकृतिर्हि तदैव सार्थिका स्याद्यदि न केवलमेको वधधातुः किन्त्वन्येऽपि बहवो धातवोऽनेकस्वरानुस्वारेतः स्युर्नत्वन्यथा, तादृशाश्च बहवो धातवस्तदैव सम्भवेयुः यदि कृगादीन् यङ्लुबन्तीकृत्यैष न्यायः स्फोर्यते। तद्यथा कृधातुर्यङ्लुबन्तत्वे चर्क इत्यादिरूपत्वादनेकस्वर एतन्न्यायस्फोरणादनुस्वारेच्चेतिः, ततश्च चर्करितेत्यादाववधीदित्यादावपि चेनिषेध - निवृत्त्यर्थत्वाद् “एकस्वरादनुस्वारेतः" इति सूत्रकृतिः सार्थिका स्यात् । तदेवमिमं न्यायं विनाऽनुपपद्यमानमनेकस्वरानुस्वारेद्धातुबाहुल्यं विनाऽनुपपद्यमानम् "एकस्वरादनुस्वारेतः ' (४,४,५६) इति बृहत्सूत्रकरणमिमं न्यायं ज्ञापयति । चटुलश्चायमग्रेतनेनापोद्यनत्वात्॥
11
46
तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च। एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि ॥ | १ ||
निर्दिष्टमिति तिवेत्यादिचतुर्षु योज्यम् । ततश्च तिवादिर्निष्टमेकस्वरशब्दमुच्चार्य विहितं च कार्यं विवक्षितधातोर्यदि यङ्लुप् स्यात् यदा न स्यात् । पूर्वेणातिप्रसंगे प्राप्ते तन्निषेधपरोऽयं न्याय: । तत्र तिवा निर्दिष्टं द्विधा - अलुप्तेन लुप्तेन च । तत्रालुप्तेन यथा-‘“न कवतेर्यङः " (४-१-४८) इति कस्य चत्वनिषेधः । अयं कोकूयते इत्यादौ स्याच्चौकवीतीत्यादौ तु न । लुप्तेन यथा- " ङे पिब: पीप्य् (४.१.३३) इति पीप्यादेशः । अयं पिबतेः केवलस्य स्याद्यथा पिबन्तं प्रयुक्त अपीप्यत्, यङ्लुबन्तस्य तु न स्याद्यथा पापतं प्रायुक्त अपापयत् । शवा निर्दिष्टं यथा- "निसस्तपेऽनासेवायाम्" (२.३.३५) इति निसः सस्य षत्वम् । इदं निष्टपतीत्यादौ स्यान्निस्तातपीतीत्यादौ तु न । अनुबन्धेन निर्दिष्टं यथा'गापास्थासादामाहाकः " ( ४- ३.९६ ) इति एत्वम् । इदं हेयादित्यादौ स्याज्जहायादित्यादौ तु न । गणेन निर्दिष्टं त्रिधासंख्या आदिशब्देन बहुवचनेन च तत्र संख्यया यथा- "तेर्ग्रहादिभ्यः " (४-४-३३) इत्यनेन ग्रहादिभ्यः
44
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org