________________
परस्याशितस्तिप्रत्ययस्यादौ "स्ताद्यशितो०" (४-४-३२) इत्यनेन प्राप्तस्य इटोऽनुज्ञाविधिः। स भणितिः इत्यादौ स्यात् बम्भाणिरित्यादौ तु न। एकस्वरनिमित्तं यथा “एकस्वरादनुस्वाते:'" (४-४-५६) इतीनिषेधः । अयं शक्त इत्यादौ स्यात् शाशकित इत्यादौ तु न। ननु शाशकित इत्यादावेकस्वरत्वाभावादेव "एकस्वरादनुस्वारेतः" (४-४५६) इतीनिषेधः प्राप्नोति, परमेतन्यानेन निषेधान्न स्यात्। व्यक्तिकरं त्वस्य तत्तत्सूत्रेषु तिवादिनिर्देशा एव। तथाहि। तिवादिनिर्देशास्तावत्तत्तत्सूत्रेषु कृतास्तेषां च विशेषः प्रायोऽन्यः कोऽपि न, एतावांस्तु दृश्यते, तदुत यङ्लुबन्तप्रयोगेषु तत्तत्सूत्रोक्तकार्याणि न सन्तीति ततोऽर्थापत्त्या ज्ञायते-एतदर्थमेवैते कृता इति। तरलत्वं त्वस्याद्ये पञ्चमे चांशे च। दृश्यते शेषेषु च दृश्यते। तत्र द्वितीये यथा-अपादित्यादाविव अपापादित्यादावपि “पिबैतिदाभूस्थः सिचो लुप्परस्मै न चेट' (४-३-६६) इत्यनेन शनिर्दिष्टोऽपि सिचो लुबिड्निषेधश्चाभूताम्। तृतीये यथा-नृत्त इत्यादाविव नरीनृत्त, इत्यादावपि "डीयश्व्यैदितः क्तयोः" (४,४,६१) इत्यनेनानुबन्धनिर्दिष्टोऽपि इनिषेधोऽजनि। तुर्ये यथा-स्प्रष्टा इत्यादाविव स्पृशेर्यङ्लुपि रागमे तिवि पद्मष्टि इत्यादावपि "स्पृशादिसृपो वा" (४,४,११२) इत्यनेन गणनिर्दिष्टोप्यदागम आगात्।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org