________________
564
धातुरत्नाकर प्रथम भाग धुरूपकार्यानुपलभ्भाच्च अतः टः स्वादिरथुकारकः इति पाठः सम्यक् टकारः स्वादिः (षिंगट्-सिनुते इति उकारविशिष्ट:टकारः अथुकारकः यथा टुवपीं बीजसन्ताने इति 'द्वितोऽथुः ' इति अथौ वपथुरिति । त्रिमगर्थो डकार इत्यग्रिमग्रन्थानुरोधेनउकारविशिष्ट इति अवश्याध्याहार्यम् इति तस्मिन् पाठे न कोऽपि दोष इति - त्रिमग् अर्थः प्रयोजनं यस्य तादृशो डकार: स्यात् अत्र डकारेण डकारोपलक्षितो डुंकारो ज्ञेयः । ८९२ डुपचष् (पच्) पाके । वित्त्वात्रिमकि पाकेन निर्वृत्तं पवित्रमम् । णो णकारो यदि स्यात्तदा चुरादिः धातुश्चुरादिगणीयो भवति एवं णकारो वृद्धिकृद् । अस्ति १५७२ बल्कण् (बल्क्) भाषणे। णित्वाच्चुरादित्वेन चुरादिभ्य इति णिचि वल्कयति । १२ दु (दु) गतौ णवि वृद्धौ दुदाव । १३१७ क्षिपत् (क्षिप्) प्रेरणे । तित्त्वात् तुदादेः श इति क्षिपति । नकारश्च इच्चापुंसोऽनित्क्याप्परे इत्यत्र विशेषणार्थः । खट्विका खट्वाका अनिदिति किम् । दुर्गका पकारो रुधादौ नागमार्थः । अर्थात् पकारेण रुधादित्वं भवति रुधादित्वाच्च नागमो भवति । १४७३ रिचृपी (रिच्) विरेचने रुधां स्वरादिति श्ने रिणक्ति किन्तु रुधादौ तागमे पोहि - इति पाठः सम्यक् तस्येयं व्याख्या पकारो रुधादिघटका: पकारानुबन्धेन धातूनां रुधादित्वं भवतीति भावः प्रत्ययस्थपकारानुबन्धः तागमप्रयोजक:-(दृवृग्-इत्यादिना क्यपि ‘ह्रस्वस्य तः पित्कृति' तागमे आदृत्य प्रावृत्य इति मो मकारः दामः सम्प्रदाने ऽधर्म्ये आत्मने च इत्यत्र विशेषणार्थः । दास्या सम्प्रयच्छते कामुकः । यो यकारः तनादेः सूचकः । १५०१ क्षणूयी (क्षण्) हिंसायाम् । यित्त्वात् कृग्तनादेरित्यौ च तनुते । रकारः पुंवद्भावरूपो योऽर्थस्तत्सूचकः । पट्वो प्रकारोऽस्याः पटुजातीया । प्रकारे जातीयरिति जातीयर प्रत्यये रितीति पुंवद्भावः । लकारो स्त्रीलिङ्गार्थः । जनानां समूहो जनता; अत्र तल्प्रत्ययस्य लित्त्वात् स्त्रीत्वम् । वकार उत अनु-अ-भू-ञिच् | और्वितिव्यञ्जनेऽद्वेरित्यत्र विशेषणार्थः । १०७७ घुंक् (द्यु) अभिगमने । द्यौति । शकारो यदि स्यात्तदा त्क्रयादिः स्यात् । १५०७ षिंगूश् (सि) बन्धने । शित्त्वात्क्रयादित्वेन क्रयादेरिति श्नाप्रत्यये सिनाति । क्यः शितीत्यत्र विशेषणार्थः । भूयते अत्र भावकर्मविहिते शिति क्यः । चकार :षितोऽङ् इत्यत्र विशेषणार्थः । ८९२ डुपचष् (पच्) पाके । पच्यतेऽसाविति पचा । सकारः पदत्वार्थे पदत्वप्रयोजकः । भवतोरिकणीयसौ इतीयसि नामसिद्यव्यञ्जने - इति पदत्वे घुटस्तृतीय इति दत्वे
अदादिर्भवति । एवं ककारो यदि प्रत्यये स्यात्तदा तस्मिन् प्रत्यये परे धातुर्गुणी गुणवान् न भवति । ११०० हनंक् ( हन्) हिंसागत्योः । कित्करणाददादित्वं तेन कर्तर्यनद्भ्यः शव् इत्यत्र अदादिवर्जनाच्छवभावे हन्ति । भूसत्तायाम् । भू-क्यात् - भूयात् अत्र कित्त्वेन नामिनो गुणोऽङ्कितीत्यत्र किद्वर्जनान्न गुणः खे पूर्वस्य-मुमागम इति मुम् - इति (म् ) इत्यस्य प्राचां संज्ञा तयाइद्व्यवहारः प्राचां - संज्ञाया व्यवहार इत्यत्र प्रमाणम् - यजादेः संप्रसारणमिति एवञ्च मुमागम इत्यस्य मागम इत्यर्थः । खे खिति पूर्वस्य म् आगमो भवति १२० मनिंच् (मन्) ज्ञाने कर्तुः खश् इति खशि खित्यनव्ययेति मागमे च पटुमात्मानं मन्यत इति पटुंमन्यः ।। ८८३ श्रिग् ( श्रि ) सेवायाम् । गित्त्वात्फलवति कर्तरि ईगित इत्यात्मनेपदेऽन्यत्र - शेषात्परस्मायिति परस्मैपदे चोभयपदं ज्ञेयम् । श्रयते श्रयति । घो घकारो यदि स्यात्तदा चजो: चकारजकारयोः कगौ क्रमेण ककारगकारौ कृतौ विहितौ ज्ञातव्यौ । भाविनि भूतोपचाराद् घकारे । इति चकारस्य ककारो जकारस्य गकारो भवतीत्यर्थः । ८९२ डुपचींष् (पच्) पाके । पचनं (पच्- घञ्) पाकः । ९९१ यजीं (यज्) देवपूजासंगतिकरणदानेषु । यजनं ( यज्- घञ्) यागः । अत्र चजः कगमिति चकारस्य कत्वं जकारस्य गत्वञ्च । आत्मने इति पदैकदेशे पदसमुदायोपचाराद् आत्मनेपदे आत्मनेपदार्थं गुणरोधे गुणनिषेणार्थञ्च ङो डकारो भवति । ५६८ गांङ् (गा) गतौ ङित्त्वाद् इङित इत्यात्मनेपदे गाते । ९३७ द्युति (द्युत्) दीप्तौ । द्युत्-अङ् अद्युतत् अत्र ङित्त्वेन - नामिन इत्यत्र द्विर्जनान्न गुणः । चः चकारो यदि स्यात्तदा दिवागणो भवेत् । दिवादिगणीयो धातुर्भवेदित्यर्थः । ११५३ कुथच् (कुथ्) पूतिभावे। अत्र चित्त्वाद्दिवादित्वेन दिवादेरिति श्ये कुथ्यति । जो ञकारो वृद्धौ वृद्ध्यर्थः ॥
एवं जी नाम ञकारोपलक्षितो ञिर्यदि भवेत्तदाः धातोर्वर्तमाने क्तप्रत्यो भवति । १ भू सत्तायाम् । अन्वभावि - अत्र ञित्त्वाद् णितीति वृद्धिः । ३०० ञिविदा (विद्) अव्यक्ते शब्दे । ञित्त्वाज्ज्ञानेच्छार्चेति सत्यर्थे क्तः । विद्यते क्ष्विण्णः । टकारो यदि स्यात्तदा स्वादिः स्यात् । १२८६ षिगट् (सि) अभिषवे। अत्र टित्त्वेन स्वादित्वात् स्वादेः श्नुरिति श्नौ सिनुते (टःस्वादिष्ठद्युकारक: ) अत्र ठद्यकारकः इति पाठो न समीचीनः ठानुबन्धानुपलम्भात् ठ- इत्यस्य निर्विभक्तिकत्वात् अयोग्यतया समासाभावात्
धुकारक
Jain Education International
इत्यत्र
For Private & Personal Use Only
•
www.jainelibrary.org