________________
धातुरत्नाकर प्रथम भाग विराजितमतिनिपुणायव्ययपूर्वकप्रवर्तनशीलवाचंयमवणिग्वरविभूषितममन्दानन्दसन्दोहनिधाननिर्वाणपुरप्रापणैकप्रवणं चारित्रमयपवित्रप्रवहणमिति सर्वजनसिद्धम्।। ___ एतचारित्रमयपवित्रप्रवहणमपि पदपदार्थज्ञानद्वारोत्पन्नहेयोपादेयज्ञानपूर्वकम्। पदपदार्थज्ञानमपि नयनिक्षेपादिभिरधिगमोपायैः परमार्थतः, व्यवहारतस्तु प्रकृत्यादिभिः।। ताश्च प्रकृतयः पूर्वाचार्यप्रसिद्धा एव सुखग्रहणस्मरणकार्यसंसिद्धये विशिष्टानुबन्धसम्बन्धक्रमा अर्थसहिताः प्रस्तूयन्ते। तत्र यद्यपि नामधातुपदभेदाद् "राजा जयति पूर्वाह्नेतरां पचतितराम्" इत्यादौ त्रेधात्प्रकृतिस्तथापि नामपदरूपं यत्प्रकृतिद्वयं तस्य धातुमूलत्वाद् धातुप्रकृतिरेवैका प्रधानम्। तथा ये शब्दानामव्युत्पत्तिपक्षमाश्रयन्ति तेषामपि व्युत्पत्तिपक्षानुसारेणैव शब्दस्वरूपनिर्णय इति तत्रापि धातुमूलत्वमबाधितमेव। धातुप्रकृतिश्च द्वेधा शुद्धा प्रत्ययान्ता च। शुद्धा 'भू' इत्यादि, प्रत्ययान्ता च "गोपाय कामि ऋतीय जुगुप्स कण्डूय बोभूय बोभू चोरि भावि बुभूष" इत्यादिरूपा। एषा प्रत्ययान्तापि प्रकृतिः शुद्धमूलैवेति शुद्धैवात्रादावुदाह्रियन्ते।
१ भू सत्तायाम्। भू इत्यविभक्तिको निर्देशः। सकारान्तरकारान्तभ्रमापाकरणार्थम्। न च धातुत्वेन नामत्वाभावात्कथं भूः इति प्रयोगः सम्भवेदिति शंक्यम्। नायं धातुरपि तु भवति इत्यादिषु योज्यमानभूधातोरनुकरणं तस्मात्तस्मात्सम्भवति विभक्तिः । न च तर्हि निरुक्तशङ्कोपायान्तरेणापनेया अपि तु सविभक्तिक एव प्रयोगः कर्त्तव्यः, निर्विभक्तिकप्रयोगस्य शिष्टासम्मतत्वादिति वाच्यम्, यदा अनुकार्यानुकरणयोः स्याद्वादाश्रयेणाभेदविवक्षा तदार्थत्त्वाभावान्न भवति नामसंज्ञा इति तत्कल्पे निर्विभक्तिक एव प्रयोगः शिष्टसम्मतो, यदा च भेदविवक्षा तदा अनुकार्येणार्थेनार्थवत्त्वात् नामसंज्ञा भवत्येव इति तत्र पक्षे सविभक्तिक एव प्रयोगः शिष्टसम्मतः। प्रस्तुते च प्रथमकल्पादरणात्सर्वशङ्का निरस्ता।। एवं सर्वत्राप्यूह्यम्। भू इत्येषा प्रकृतिः सत्तायां वर्तते। अभूत् भूत इत्यादौ ऊकारस्य प्रयोगित्वदर्शनात् "अप्रयोगीत्" इति इत्संज्ञा न भवति। एवमन्यत्रापि। वर्णसमाम्नायक्रमेण स्वरान्तव्यञ्जनान्तधातूपदेशप्रतिज्ञानात् “पां पाने'' इत्यादेः प्रथमं निर्देशे प्राप्तेऽपि वृद्धसमयानुवर्तनार्थं प्रथममस्य पाठः। यदाहुर्वृद्धाः- 'भ्वादयः धातवः' इति मङ्गलार्थमपि, यदाह- माङ्गलिकत्वात् प्रथममस्य प्रयोग इति, माङ्गलिकत्वञ्चास्य वृद्धादवसेयम्, एवमदादिगणेष्वपि वृद्धसमयानुवर्तनमदिप्रभृतीनां प्राग्निर्देशे प्रयोजनमभ्यूह्यम्। ननु सत्तेति कोऽर्थ इति चेदुच्यते, सतो भावः सत्ता, अस्तित्वं, द्रव्यधर्मो धात्वर्थसामान्यमिति यावत्। यदाहु:
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः।
प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते॥ तां प्रातिपदिकार्थञ्च धात्वर्थं च प्रचक्षते। इति सेति सत्ता। अपि च-धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते। तथा यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तीति भवन्तीपरं प्रयोक्तव्यमिति। अत्राह- ननु भुवः सत्तावाचित्वे धातुत्वमनुपपन्नम्। क्रियार्थो हि धातुः, क्रिया च स्पन्दनरूपा। सत्ता तु द्रव्यादिषु सत्सदित्यनुवृत्तप्रत्ययाभिधानलिङ्गा स्पन्दरूपा न भवति। नैष दोषः, यथा "जानाति पश्यति स्मरति श्रद्धते संयुज्यते समवैति वियुज्यते नश्यति श्वेतते" इत्यादीनां ज्ञानदर्शनस्मरणश्रद्धानसंयोगसमवायवियोगाविनाशवर्णादयो द्रव्यगुणा अपरिस्पन्दात्मका अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org