SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना श्रीमन्मगुरुः प्रभूतकरणः सोऽयं सदानन्दनं दद्यात्सद्गुणशालि चामृतपदं लावण्यसन्मन्दिरम् ॥ ११॥ Jain Education International (स्रग्धरा) कम्रालङ्काररम्या रुचिरतरपदन्याससौम्या प्रसन्ना नानाश्लेषातिदक्षा स्वमधुरतया कर्णयुग्मापहारी । विस्फूर्जत्स्फीतभावा नवरसहृदया चारुवर्णाभिरामा कान्तेवासौ नवीना भुवि जयतितरां भारती नेमिसूरेः ॥१२॥ (उपजाति:) यः सर्वदारोचितचित्तवृत्ति-स्तथाप्यदारोचितचित्तवृत्तिः । सिद्धेषु रागान्वितचित्तवृत्तिस्तथापि सिद्धान्तसुचित्तवृत्तिः ॥ १३ ॥ समाश्रितोऽधामतया सदापि श्रितः स्फुरद्धामतया तथापि । सदर्पणो दर्पणारिक्तकोऽपि सनेमिसूरिर्जयताज्जगत्याम् ॥ १४॥ (अनुष्टुप्) वर्णवर्गान्तिमत्त्वेऽपि निजनामावलम्बिनौ | गुणश्रिया योज्यस्पर्शभावं नयन्ति ये ।। १५ ।। तेषां श्रीनेमिसूरीणां गुरूणां पादसेवया । नायन्ति किमु दक्षत्वं मादृशा जडशेखराः।।१६॥ लावण्यविजयेनाथ तेषामन्तिषदा मया । प्रणुन्नेन कृतः सर्वधातुरूपदिदृक्षुभिः ।। १७ ।। चित्रितश्चित्ररूपैश्च श्रितो हेमादिलक्षणैः । चुराद्यन्तगणैर्गुप्तः प्रक्रियाभिः परिष्कृतः ॥ १८ ॥ दधातु धातुरत्नानामाकरो बहुधातुषम् । अवित्तचित्तवृत्तिषु मयि च स्मृतिमद्भुताम् ॥ १९॥ अस्ताघभवनिर्माणनिपुणकषाय इह हि तावन्निजनिर्मितामितकर्ममर्मोपनीतच्युतिप्रसूतिपानीयपरिप्लाविते पातालपरिष्कृते विशिष्टभ्रमिसम्पादनप्रौढप्रतापमोहावर्त्तपल्लविते संख्यातीतव्यसनजलचरदुर्ललिते निरन्तरप्रसृत्वराज्ञानानिलेरितसंयोगवियोगादिवीचनिचयोपचिते आधिव्याधिवडवानलकरालिते भीमे भवपाथोधौ निमज्जतां दुःखोद्विग्नमनसां सुखैकलिप्सूनां तनुभृतां तस्मात्सन्तरणैकप्रवणम् उपशमादिसुबन्धनबद्धसम्यग्दर्शनकूपकाभिरामम् अतुलज्ञानमयकर्णधाराध्यासितप्रशस्तदेशं वरसंवरावृतविवरवारं दुस्तपतपोऽनिलाहितपटुतरवेगं महार्घशीलाङ्गरत्नराजि 3 For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy