SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 2 Jain Education International (उपजाति:) जडप्रधानोऽपरभङ्गगोऽपि सपङ्कजातः सगरान्वयोऽपि । नीचः प्रकृत्या मृततां गतोऽपि सप्तांम्बुराशिप्रकरः पृथिव्याम् ॥ ५ ॥ यच्छन्नसप्तस्फटशालिनागाधिराजदम्भात्कृतसेवनातः । महाशयत्वञ्च जगाम नित्यं पायादपायाज्ञ्जिनपः स पार्श्वः ॥ ६ ॥ युग्मम् ॥ (शार्दूलविक्रीडितम्) यस्माद् बोधति चेदकं कुवलयं यस्तारकाल्याञ्चितः सर्वाशासुखसम्पदुल्लसनकृन्नित्यं सुधामाश्रयन्। यश्चञ्चद्धरिणाङ्कितः शमनिधिः सद्वृत्तसौभाग्यभूः वन्देऽज्ञानतमोऽपनोदनकृते वीरं तमीशं सदा ॥७॥ (शिखरिणी) लसन्ती या नित्यं सरससुमनोमानसमिता जलौल्लासी पक्षैः विलसितमरुद्भिः शुचितरैः । कलध्वाना दीव्यद्गतिरुपनता मौक्तिकफलैः सदा जैनी वाणी सुजयति मरालीव नितराम् ॥८॥ (शार्दूलविक्रीडितम्) पूज्यः श्रीयुतवृद्धिचन्द्र इह स प्रद्योतते पुण्यकृचाकोरामदवृद्धिचन्द्र इव यश्चन्द्रश्च शान्त्याकरः । सिद्धान्तोदधिवृद्धिचन्द्र उपमातीतः सतां हृत्सर:सम्वित्कैरववृद्धिचन्द्र उदिते पापातपे वारिदः ॥ ९ ॥ सौवर्णाद्रिरिव क्षमाधरवरो मध्यस्थभावं गतो भक्तिभ्राजितवैबुधाश्रितपदः काष्ठान्तप्रापिस्थितिः । जैनेन्द्रागमजातचारुविभवः कल्याणरूपश्च यः भव्यानां स तनोतु मङ्गलततिं श्रीनेमिसूरिप्रभुः ॥ १० ॥ संसारार्णवपारप्रापणविधौ पोतायमानो नृणामत्युद्भासितभिक्षुभावगरिमा विज्ञाततन्त्रावलिः । धातुरत्नाकर प्रथम भाग For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy