SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीमञ्जिनपुङ्गवेभ्यो नमः सकलस्वपरसमयपारावारपारीण-तीर्थसंरक्षणप्रवण-विद्यापीठादिप्रस्थानपञ्चकसमाराधक-तपोगच्छाधिपति भट्टारकाचार्यवर्य-परमगुरुश्रीमद्विजयनेमिसूरिभगवद्भ्यो नमः श्रीमत्तपोगणगगनाङ्गणगगनमणि-सार्वसार्वज्ञशासनसार्वभौम-तीर्थरक्षणपरायणकोविदकुलालङ्कार-अखण्डविजयश्रीमद्गुरुराज-विजयनेमिसूरीश्वर चरणारविन्दचञ्चरीकायमाणान्तिषन्मुनिलावण्यविजयप्रणीतो धातुरत्नाकरः लोकालोकावलोके विलसति विमला केवलार्चिर्यदीया देवादेवाधिदेवैररचि च चरणार्चा च नित्यं यदीया। गावो नावो नवीना घनभवजलधेस्तारणेऽरं यदीया आप्ताः प्राप्ताः शिवं ते जिनवरप्रवरा नो नयन्तां शमालिम्॥११॥ लब्धानेकार्थसार्थो मकरधिमधरीकृत्य यः सत्तयास्ते उद्यत्कल्लोलमालाऽपि जडपरिणतिर्गाहते यञ्च नित्यम्। सद्वंशो वारिराशौ सदमृतसरणिं संसृतौ संसृतोऽस्तु पोतः श्रीनाभिसूतः विलसनवसतिः धीवराणां नराणाम्।।२।। भव्यग्रामानुशासी चरणजयकृतौ सिंहकल्पश्च शास्त्रविद्यादक्षः प्रदाता प्रतिदिनरजनि क्षेत्रभृद्राज्यभीतेः। यो नित्यं दान्तराजैर्विहरति च सदाचारलब्धस्वरूपः श्रीशान्तिं तं क्षमाभृन्निकर उभयतश्चक्रिणं नन्नमीमि॥३॥ विस्फूर्जत्स्फीतवाचो नरसुरकुरुहः प्राणिनां वाञ्छितार्थदाने मीनः सदावस्थितिभृत उदरे शान्तिसिन्धोर्विहाय। कान्तां भौगीञ्च राजी मदनमदजितस्तीर्थराजः प्रभासः आधिव्याधिप्रहीणं शमधि विदधतामक्षरस्थानमिज्यम्॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy