SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना आख्यातप्रकृतिवाच्याः सन्तः क्रियाव्यपदेशमर्हन्ति। एवं सत्तापि द्रव्यधर्मो धातुवाच्यतामापाद्यमाना क्रियाव्यपदेशं लप्स्यते। मणिमुकुरकृपाणादिज्ञापकवैचित्र्याचैकरूपस्यापि मुखादेर्नानात्वोपलब्धेर्धातुवाच्यैव सत्ता क्रियात्वमास्कन्दति न प्रातिपदिकवाच्येति नाव्यवस्था। किञ्च पाकादिक्रियाणां त्रैकाल्याभिव्यञ्जकत्वमुपलब्धं पचति पक्ष्यति अपाक्षीत् जानाति ज्ञास्यति अज्ञासीत् इत्यादि। तच्चेहापि भवति भविष्यति अभूदिति धातुवाच्यायां सत्तायामुपलभ्यमानं क्रियात्वं व्यवस्थापयति। अत एव वृक्ष इत्यादिप्रातिपदिकवाच्यायाः सत्ताया न क्रियात्वम्। एवं स्थिते क्रियावाचित्वमात्रमाख्यातुं सत्तोपात्ता। अर्थान्तराण्यपि अनयोपलक्ष्यन्ते। यदाहुः निपाताचोपसर्गाश्च धातवश्चेति ते त्रयः। अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम्।। इति ___ तथा च भूरयं क्वचिदस्त्यर्थे वर्तते। यथा बहूनि धनान्यस्य भवति सन्तीत्यर्थः क्वाप्यभूतप्रादुर्भावे। यथा वचाक्षीरभोजिन्याः श्रुतधरः पुत्रो भवति जायते इत्यर्थः। क्वचिदभूततद्भावाख्ये सम्पद्यर्थे। यथा अशुक्ः शुक्लो भवति सम्पद्यते इत्यर्थः । एवमुपसर्गावशाच धातोरनेकोऽर्थः प्रकाशते। यथा प्रभवतीति स्वाम्यर्थः प्रथमत: उपलम्भश्च। पराभवति परिभवति अभिभवतीति तिरस्कारः। सम्भवतीति जन्मार्थः प्रमाणानतिरेकेण धारणञ्च। अनुभवतीति संवेदनम्। विभवतीति व्याप्तिः। आभवतीति भागागतिः। उद्भवतीति उद्भेदः प्रतिभवतीति लग्नकत्वमिति अथवार्थान्तरेष्वपि क्रिया सामान्यरूपा सत्ताऽनुवर्त्तते एवेति सत्ताया एवोपादानं कृतम्। सत्ताव्यतिरेकीणि ह्यर्थान्तराणि खरविषाणायमानानि स्युः। षड्भावविकारा इति वचनाच भावः सत्तासामान्यरूपा क्रियेत्यवसीयते। यदाहुः-जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यतीति षड् भावविकारा इति। अपि च सर्वेऽपि खलु धातवस्तेन तेनोपाधिना सत्तामेवावच्छिद्यावच्छिद्य विषयीकुर्वन्तीति सा क्रिया सामान्यमित्युच्यते। तथा च "क्रियार्थो धातुः" इति भुवो धातुत्वमित्यलं पल्लवितेन। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy