________________
रसरत्नसमुच्चयम्
अथ केवलतीक्ष्णम् वज्रार्कहेमहलिनीघनवह्निहेम्नी-गुंजेंगुदी द्विरजनीतुरगीन्द्रवृक्षः । राज्या च तक्रमिलितं लुलितं क्रमेण, तीक्ष्णं र (1)जौ मृतिमुपैति
पुटाभितप्तम् ।।३५॥ अथास्य विवरणम् इति लिख्यति (ते) वज्र=स्नुहो, अर्को जंभलः, हेम=धत्तूरकः, हलिनी लांगली, घनौ=मुस्ता, वह्नि=चित्रकः, हेम्नी कांचनी, गुंजा उच्चटा (गुंदी), इंगुदी=इंगारी, द्विरजनी द्वे हरिद्र, तुरगी=अश्वगंधा, इन्द्रवृक्षः= देवदारु, राजी=कञ्चुकी चेति । अपि चत्रिफलापुटानि षोडश, निम्बत्वककाचमाचीभृगानाम् । मलयूमीना (क्ष्यो) रपि, त्रित्रिपुटानि क्रमेण सुदृढ़ानि ॥३६।। तदनु भुजंगलतारस-मिश्रित तत्त ल्यगन्धकस्य पुटम् । केसरिपुटं च दत्त्वा मारय चूर्णीकृतं तीक्ष्णम् ।।३७।। भृगो=भृगरकः, मलयू कालूबरी, मीनाक्षी=ग्रंथीयकः,भुजंलगता= ताम्बूली, केसरी= बीजपूरं, तीक्षंसारलोहमिति ।
अथ केवलताम्रम् नागवंगरविकांस्यपित्तलाः, सिंदुवारजरसे निषेविता । यांति शुद्धिमृषिसरंघयाऽथवा,तत् शिफाभव रजोनिपा ततः ।।३८।। वंगनागपुगमर्कपयोऽक्तं, चिचिपिप्प (प२)लखरंटिनिगुड्यम् । स्वल्पवह्निपुटितं मुहुरेव, पंचतां स्पृशति कंटकवेध्य (ध्या)म् ।।३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org